भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 547, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 547

ख. ५ अ. ९ पान १८

सर्वत्र चक्षुः श्रुतितुंडभूतम् । सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥८॥ संस्थं सुषुप्तौ समभावदं वै द्वंद्वज्ञमाद्यं द्विविधावभासम् । आनंदकंदं तमसा विभातं लम्बोदरं तं च वयं नताः स्मः ॥९॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥१०॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनंतमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥११॥ अध्यात्मरूपं तमसा चरंतं द्रव्यप्रकाशं परमार्थभूतम् । देहेंद्रियज्ञानमयं च ढुंढिं लम्बोदरं तं च वयं नताः स्मः ॥१२॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेंद्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥१३॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेंद्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महांत्तं लम्बोदरं तं च वयं नताः स्मः ॥१४॥ आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥१५॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥१६॥ तेजःस्वरूपं सकलावभासं द्वंद्वप्रचारं जठरे सुसंस्थम् । संधौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥१७॥ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥१८॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥१९॥ विराट्स्वरूपस्थमनंतपारं सर्वत्रनेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥२०॥ रजोयुतं सृष्टिकारं द्विजेशमादि- स्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥२१॥ सत्त्वप्रचारं हरिरूपधारं यं तामसं शंकरवेषसंस्थम् । सूर्यप्रचारं जगदंबिकागं लम्बोदरं तं च वयं नताः स्मः ॥२२॥ इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं स्तुवीमः । देवाः शिवाद्याश्च विकुंठिता वै लम्बोदरं तं च वयं नताः ॥२३॥ ब्रह्मोवाच । स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥२४॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥२५॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥२६॥ मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न संदेहः परकृत्यविनाशनम् ॥२७॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्र- पाठतः । धनधान्यकलत्रादि सुखं विंदति मानवः ॥२८॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्व-