मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 558, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. १४ | पान २९
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु महाभाग लंबोदरचरित्रकम् । शक्त्यधीनस्वभावारूयं सर्वसिद्धिप्रदायकम् ॥१॥ एकदा मिलिता देवाः सर्वे तत्र प्रजापते । विंध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥२॥ तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ । पंच देवाः समानाश्च सगुणा निर्गुणा मताः ॥३॥ कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह । सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥४॥ अन्यदेवस्य भक्तैश्चेष्टदेवाद्दौ गजाननः । पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥५॥ गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः । इदं किं वेदवादेषु कथितमादिपूज्यतः ॥६॥ यथा देवाश्च चत्वारस्तथाऽयं गणनायकः । स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥७॥ तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् । शुभाशुभे गणाधीशः सर्वादौ संमतः कथम् ॥८॥ इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता । जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥९॥ शक्तिरुवाच । लंबोदरोऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा विप्रा लंबोदरप्रवाचकाः ॥१०॥ तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः । नाना ब्रह्म तथेशाश्च तत्रांते संस्थिता बभुः ॥११॥ मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥१२॥ सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥१३॥ तस्यास्तद्वचनं श्रुत्वा जगदंबामुवाच ह । शंकरः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥१४॥ शिवविष्णू ऊचतुः । किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता । वयं पंच समानाश्च तत्राधिक्यं न विद्यते ॥१५॥ परस्परं च देवेशि भावयामो न संशयः । आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥१६॥ यदि लंबोदरश्चायमेको देवो न संशयः । तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥१७॥ तदाधारास्तथांऽते वै तत्र लीना भवामहे । तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥१८॥ पालयामो हरामश्चाधिकं भवति किं महः । तथापि वेदवादेषु वयं लंबोदरा नहि ॥१९॥ अतो लंबोदरस्यादौ सामर्थ्यं कीदृशं महत् । पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥२०॥ यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् । सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥२१॥ ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारक्रम् । नैवेद्यं सत्यसंकल्पौ पूजायां संस्थितौ परौ ॥२२॥ एककालसमाविष्टावावाह्य गणनायकम् । पुपूजतुर्महाभक्त्या छलधर्म- स्वरूपया ॥२३॥ गणेश्वरस्तत्र साक्षात् समायातः प्रजापते । दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचेतसि ॥२४॥ ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् । सत्यसंकल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥२५॥ सिद्धिहीनौ विष्णुशिवौ पूजायां