भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 565, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 565

ततस्तं गणराजः स जगाद वृणु वाञ्छितम् । दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥१५॥ शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुक्तः । ब्रह्मांडधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥१६॥ भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् । मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥१७॥ तथेति गणराजस्तु तमुक्त्वाऽन्तरधात्ततः । शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥१८॥ तदारभ्य स्वयं नागो धराधारो बभूव ह । दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥१९॥ ततो योगबलेनैव नाना मायाविशारदः । नाना रूपधरः शेषः शुशुभे सर्वमंडले ॥२०॥ एवं बहौ गते काले हिरण्य- कशिपोर्भयात् । ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥२१॥ विपुलं स तपस्तप्त्वा शमदमपरायणः । योगभूमिस्थ- भावेनांतर्निष्ठश्च बभूव ह ॥२२॥ ततः क्रमेण नागेशः समस्वानंदगोऽभवत् । योगेन तत्र शांतिं च स दृष्ट्वा संस्थितो- ऽभवत् ॥२३॥ विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् । वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥२४॥ ततस्तं वरदो विष्णुर्ययौ शेषेण संस्तुतः । याचितो नित्यमेवं मे दर्शनं देहि केशव ॥२५॥ मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन । तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥२६॥ शेषशायी सदा तस्य स देहे संस्थितोऽभवत् । तेन संहर्षितोऽत्यंतं बभूवे नागपालकः ॥२७॥ ततो योगबलेनाऽसौ मायामोहं ददर्श ह । समानंदं द्वंद्वमयमशांतोऽपि बभूव ह ॥२८॥ एवं बहौ गते काले योगमार्गरतोऽभवत् । समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥२९॥ साहजं शंकरं ज्ञात्वा शैवमार्गपरोऽभवत् । ब्रह्म स्वेच्छामयं दृष्ट्वा शांतिं प्राप्य समास्थितः ॥३०॥ ततस्तं वरदः शंभुराययौ तं प्रणम्य सः । शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥३१॥ प्रसन्नं शंकरं दृष्ट्वा ययाचे भक्तिमुत्तमाम् । सदा दर्शनभावार्थं संगतिं शंकरस्य सः ॥३२॥ तथेति शंकरो देवः स चकार प्रजापते । मस्तके तं बबंधाऽथ नित्यदर्शनकांक्षिणम् ॥३३॥ ततोऽतिहर्षितोऽनंतः शंभुमार्गपरायणः । सिषेवे भावसंयुक्तः शंकरं वृषभध्वजम् ॥३४॥ ततो योगबलेनैव शेषस्तत् सहजं परम् । मोहहीनं विदित्वा स शांतिहीनो बभूव ह ॥३५॥ मनसा शांकरं ब्रह्म नामन्यत परं प्रभुम् । शिवं नत्वा महानागः पप्रच्छ योगशांतिदम् ॥३६॥ पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः । जगाद गणनाथास्य ज्ञानं सर्वहितावहम ॥३७॥ शिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि मानद । सत्यासत्यसमानानि सहजेन युतानि वै ॥३८॥ ब्रह्माणि यत्र लीयंते संयोगेन महामते । स्वसंवेद्यं तद्वदंति ब्रह्म शांतिप्रदं परम् ॥३९॥ संयोगे