मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 569, कुल 1023 में से
संदर्भ में पढ़ेंपान ४० महाभाग पतितोऽहं हिताय ते। पतंजलिं च मां विद्धि मुने शेषं धराधरम् ॥५९॥ गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः। भ्रांतिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥६०॥ ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह। चिंतनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥६१॥ नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत्। चित्तं नागेंद्रवंद्य त्वं वदस्वातिमहाद्भुतम् ॥६२॥ योगशास्त्रं स्वयं तस्मै जगाद स पतंजलिः। यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥६३॥ विप्रेशोऽन्तर्हितो योगी शेषः सर्वार्थदायकः। व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥६४॥ शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा। तथा चित्तं समागृह्य योगिवंद्यो बभूव ह ॥६५॥ पंचधा चित्तभूमिस्त्यक्त्वा तच्चिंतनं स्वयम्। चिंतामणौ तदाकारो बभूव मुनिसत्तमः ॥६६॥ तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये। नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥६७॥ इदं शेषस्य माहात्म्यं कथितं योगशांतिदम्। अधुना शृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥६८॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। हृदयाद्बहिरागत्य शेषस्य गणनायकः। पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥१॥ तत उत्थाय शेषस्तं प्रणाम कृतांजलिः। पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥२॥ अथर्वोपनिषद्भिस्तं तुष्टाव करसंपुटैः। नागेशः प्रार्थयामास भक्तिनम्रात्मकंधरः ॥३॥ शेष उवाच। योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः। कथं मे पुत्रभावेन संस्थितोऽसि विडंबनम् ॥४॥ ततो गजाननस्तं वै मोहयामास मायया। मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥५॥ शेषः सस्त्रीक आगृह्य लालयामास बालकम्। क्रमेण पंचवर्षस्थो बभूवे तद्गृहे प्रभुः ॥६॥ अथ शृणु प्रजानाथ वृत्तांतं दैत्यसंभवम्। मायाकरासुरो दुष्टश्चकार कर्मखंडनम् ॥७॥ आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना। तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥८॥ ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः। न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥९॥ ततो मुनिवराः सर्वे देवाः शंभुपुरोगमाः। विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥१०॥ तत्रोवाच