मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 572, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. २० पान ४३ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । मूषकगवचः श्रुत्वा देवेंद्रा हर्षिता बभुः । ऊचुः प्रांजलयस्तं ते विघ्नेशं विघ्नवारणम् ॥१॥ देवर्षय ऊचुः । चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते । स्वानंदे मूषकाख्यं च सर्वभोगकरं परम् ॥२॥ अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः । कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥३॥ जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः । तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥४॥ एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः । तुष्टुवुस्तं महावीर्यं मूषकं मूषका- कृतिम् ॥५॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अंतर्भोगकरायैव मूषकाय नमो नमः ॥६॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥७॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥८॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वज- संस्थित ॥९॥ सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः । चालकात्मकवीर्यं यद्गणेशस्य त्वमंजसा ॥१०॥ ब्रह्माकार- शरीराय स्तेयानां स्वस्वरूपिणे । नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥११॥ चतुर्णां गणपः पाता त्वया तद्रूपधारिणा । भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥१२॥ इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह । भविष्यामि महाभागा वाहनं गणपस्य च ॥१३॥ एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः । मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥१४॥ मूषक उवाच । देवाय योगरूपाय नमो मूषकगाय ते । गणेशाय परेशाय परात्परतराय ते ॥१५॥ अनंताय महेशाय महेशैः संस्तुताय च । विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥१६॥ अनंतसूनवे तुभ्यं दैत्यदानवमर्दने । देवानां पालकायैव हेरंबाय नमो नमः ॥१७॥ स्वानंदवासिने तुभ्यं भक्तस्वानंददायिने । ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥१८॥ चतुर्णां चालकायैव चतुःसंयोगमूर्तये । चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥१९॥ योगेशयोगरूपाय योगिभ्यो योगदायिने । शांतिरूपाय वै तुभ्यं शांतिदाय नमो नमः ॥२०॥ मूषकवाहनायैव मूषकध्वजिने नमः । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥२१॥ वेदवाक्यप्रमाणेन मां कुरुष्व गजानन । वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥२२॥ इदं मूषकगो नाम मदीयं तु त्वया धृतम् । अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥२३॥ मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो । ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥२४॥ एवं स्तुत्वा गणाधीशं प्रणनाम स दंडवत् । भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥२५॥ मूषकग उवाच । वाहनं मे सदा साधो भविष्यसि