मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 61, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. २६ पान ६१ चूर्णयंतोऽद्रिसंचयान् । शेषमस्तकमानम्य भारेणैव प्रचक्रिरे ॥३॥ तान् मेघसदृशान् दृष्ट्वा पर्वताकारसंस्थितान् । अभवन् यमरूपान् ते क्षत्रिया गतजीविनः ॥४॥ केचित्पलायितास्तत्र केचिच्च शरणं ययुः । महावीरास्तु ते युद्धं कृत्वा स्वर्गं ययुर्मृताः ॥५॥ ये मृतास्तत्सुतास्तैस्तु स्थापिताः करदायिनः । शरणागतराजानः स्थापिताः स्वपदे तथा ॥६॥ यच्च राजविहीनं तु दैत्यास्तत्राधिपाः कृताः । राजानः सर्वविषये बभूवुर्भोगसंयुताः ॥७॥ देशे देशे तथा दैत्याः क्षत्रियाणां च सन्निधौ । स्थापिता भावबोधार्थमेवं सर्वत्र कारितम् ॥८॥ सद्वीपां वसुधां सर्वां जित्वा दैत्यो ननंद ह । मत्सरोऽतिवशां पृथिवीं तत्र दृष्ट्वा प्रजापते ॥९॥ पातालमगमद्दैत्यो दैत्यवृंदसमन्वितः । मत्सरो नागसर्पाणां जयार्थं बलवांस्ततः ॥१०॥ नागोद्या- नानि गत्वा ते बभंजुर्दितिनंदनाः । तान् दृष्ट्वा नागराजा वै युद्धार्थं समुपाययुः ॥११॥ वासुकिस्तक्षकश्चैव कंबलाश्वतरौ तथा । इत्याद्या बहवो नागा नागराजाः समाययुः ॥१२॥ सन्नद्धाः क्रोधयुक्तास्ते महाभोगा महाबलाः । रथादिषु समारूढा नानावाहनगा बभुः ॥१३॥ शस्त्रास्त्रनिचयैर्बाणैर्दैत्यान् जघ्नुर्महाबलान् । दैत्यास्तान् शस्त्रसंघातैः पातयामासुरोजसा॥१४॥ नागैर्महाबलैस्तत्र निहता दैत्यसंचयाः । भग्नदर्पाः पलायंत दशदिक्षु सुविह्वलाः ॥१५॥ दैत्यानां कदनं दृष्ट्वा विरोचन- मुखाऽऽययुः । असुराः क्रोधसंयुक्ता नागांश्चामर्दयंस्तु ते ॥१६॥ शस्त्रास्त्रैर्विविधैर्दैत्या मारयामासुरोजसा । केषांचिन् मस्तका भग्नाः पादहस्तोदरं तथा ॥१७॥ शोणितानां महानद्यः प्रास्रवन् वै दिशो दश । भग्नदर्पा भयान्नागाः पलायनमकुर्वत ॥१८॥ केचित्तान् शरणं जग्मुर्दैत्यान् परमदारुणान् । हाहाकाररवैर्युक्ता नागास्त्राससमन्विताः ॥१९॥ दैत्यानां पौरुषं दृष्ट्वा वासुकि- प्रमुखाऽऽययुः । क्रोधेन परितप्तांस्तान् वारयामासुरोजसा ॥२०॥ तक्षकादिमहानागा विषं क्षुब्धाश्च तत्त्यजुः । विवरं तद्विषैः सर्वं व्याप्तं तत्र प्रजापते ॥२१॥ महाविषभवा ज्वाला ददाहासुरपुंगवान् । मृता दैत्या अनेके च गरलेन प्रपीडिताः ॥२२॥ न स्थातुं शक्यते तत्र दैत्यैः संग्राममंडले । शस्त्राणि तेषां सर्वाणि दग्धानि च तदा किल ॥२३॥ गजाश्वरथपादातं मृतं दग्धं च सर्वशः । मूर्च्छिताः पतिता भूमौ विरोचनमुखास्ततः ॥२४॥ नागा मोदं प्रचक्रुस्ते नादयंतो दिशो दश । हर्षेण महता युक्ता नृत्यंति स्म स्थिताः परे ॥२५॥ एतस्मिन्नंतरे तत्र प्रतापी च विरोचनः । उत्थितः समरश्लाघी गतपीडो महाबलः ॥२६॥ शुक्रेण तत्र दैतेया विद्यया निर्विषाः कृताः । उत्थिताः सर्वतः सर्वे अंधकप्रमुखा बभुः ॥२७॥ असुराः क्रोधसंयुक्ता गरुडास्त्रं च तत्त्यजुः । तस्मात्तु गरुडा जाता नागान् सर्वानभूंजत ॥२८॥ तत्र वासुकिना तेन विषज्वाला प्रवर्तिता ।