मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 622, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ ऐल उवाच । बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो । तेन मार्गेण विघ्नेशं भजिष्यामि निरंतरम् ॥१॥ गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । चकार विधिवद्वाह्यां तां शृणुष्व सुखप्रदाम् ॥२॥ हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण बाह्यगं तं चकार सः ॥३॥ आदौ वैदिकमंत्रं स गणानां त्वेति संपठन् । पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥४॥ गृत्समद उवाच । चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतये ॥५॥ आगच्छ ब्रह्मणं नाथ सुरासुरवरार्चित । सिद्धिबुद्ध्यादिसंयुक्त भक्ति- ग्रहणलालस ॥६॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥७॥ रत्न- सिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥८॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥९॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरुष्व गणनायक ॥१०॥ रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो । अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥११॥ दधिमधुघृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥१२॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनांते पुनराचमनं कुरु ॥१३॥ चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१४॥ यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥१५॥ नानातीर्थजलैर्दुंढे सुखोष्णभावरूपकैः । कमंडलूह्रद्भवैः स्नानं मया कुरु समर्पितैः ॥१६॥ कामधेनुसमुद्भूतं पयः परम- पावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥१७॥ पंचामृतस्य मध्ये तु जलस्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेन ब्रह्मकमंडलूह्रद्भवैः ॥१८॥ दधिधेनुपयोभूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥१९॥ संतोषकारकं ढुंढे घृतं धेनुसमुद्भवम् । महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥२०॥ पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥२१॥ इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥२२॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आंत्यं मलहरं शुद्धं सर्वसौगंध्यकारकम् ॥२३॥ ततो गंधाक्षतादीन् दूर्वा कुरांश्च गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥२४॥ ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं ते करोमि गृहाण द्विरदानन ॥२५॥ तीर्थैराचमनं देव सुवस्तवभिसुवासितैः । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२६॥