मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 625, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ ऐल उवाच । श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् । न तृप्तोऽहं महायोगिन् भवाम्यमृतपान- वत् ॥१॥ न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके । धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥२॥ अधुना वद योगीश गणेशलोकवर्णनम् । कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥३॥ गार्ग्य उवाच । अत्र ते कथयिष्यामि चेति- हासं पुरातनम् । मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥४॥ एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप । जगाम कपिलस्याश्रमं गंगातटे स्थितम् ॥५॥ प्रणम्य स जगादापि कपिलं हर्षसंयुतः । कृत्वा करपुटं चांगिरस आदौ वराग्रणीः ॥६॥ मुद्गल उवाच । साक्षाद्विष्णुस्वरूपस्त्वं शुक सर्वार्थदायक । गाणपत्येषु मुख्यस्त्वं सांख्यानां परमा गतिः ॥७॥ त्वद्दर्शनसुपुण्येन कृतकृत्योऽहमंजसा । कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥८॥ एवं वदंतमत्यंतं कपिलस्तं ननाम च । पूजयामास हर्षेण मुद्गलं भावभावितम् ॥९॥ ततस्तं कपिलो योगी जगाद वचनं हितम् । तात ते दर्शनेनाद्य पवित्रोऽहं च सांप्रतम् ॥१०॥ पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने । साक्षात् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥११॥ यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् । नामरूपविहीनांश्च कुरुते मानवः परान् ॥१२॥ तथा त्वया महायोगिंस्तपसा योगसेवया । अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥१३॥ नानायोगिन एवं तं योगेन स्वाभिमानकम् । चूर्णयंति महाभाग तथापि हृदि तिष्ठति ॥१४॥ तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम् । वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥१५॥ त्वदीयकृत्यांगिरसं पुराणं संभविष्यति । सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥१६॥ अभिमानेन युक्तानि पुराणानि विशेषतः । शास्त्राणि नात्र संदेहः कारणं शृणु मुद्गल ॥१७॥ ज्ञातं गुह्यं तत्तथापि संगोप्य स्वमतं पुनः । स्थापयित्वा विशेषेणांजसा तथ्यं वदंति ते ॥१८॥ गणेशभक्तः संस्त्वं तु तथापि गण- नायकम् । रहस्येन विशेषार्थं न करोषि कदाचन ॥१९॥ त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः । अभिमानेन हीनत्वाद्गेदगुह्यप्रकाशकम् ॥२०॥ त्वया कृतं पुराणं यत्तद्दांत्यं प्रभविष्यति । पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥२१॥ त्वयोक्तं निंदयेद्यो वै भवेत् स निरयप्रदः । अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥२२॥ वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् । ग्रंथो भविष्यन् नूनं निरभिमानत्वकारणात् ॥२३॥ न मुद्गलसमो योगी न मुद्गलसमः कदा । गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥२४॥ स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ । त्वद्दर्शनेन संहृष्टो