मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 630, कुल 1023 में से
संदर्भ में पढ़ेंभाविताः ॥५१॥ एवं वसन्ति ये तत्र स्वानंदे मुनिसत्तम । कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥५२॥ कपिल उवाच । भक्तिमिच्छंति विघ्नेश त्वदीयां नित्यमादरात् । न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥५३॥ कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः । भवंति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥५४॥ चिंतामणिरुवाच । दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् । योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥५५॥ अपारयोजनाकारो मम लोको न संशयः । स्वानंदस्तत्र मे भक्ता वसंति सेवनोत्सुकाः ॥५६॥ संख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः । नवधा मां भजंते ते कल्पे कल्पे गतव्यथाः ॥५७॥ भवंति तु भविष्यंति बभूवुर्ये महामुने । मद्भक्ता मे प्रसान्निध्ये वसंति मोहदाः सदा ॥५८॥ महाभागा प्रियं भक्तिसमं मे नैव विद्यते । भक्त्यधीनो महानंदाद् भ्रमेयं भक्तसन्निधौ ॥५९॥ यत्र कुत्र तु तिष्ठंति भक्ता मे तत्र सर्वदा । तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥६०॥ नवधा चित्तभावेन भक्तसामीप्यगो मुदा । भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥६१॥ न स्वानंदप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा । मम देहो न विघ्नेश प्रिया भक्ता यथा च मे ॥६२॥ कपिल उवाच । स्वानंदस्था गणास्ते ये भक्तान्नेतुं समागताः । ज्योतीरूपाश्च भक्तैस्ते दृश्यंते कथमप्यहो ॥६३॥ चिंतामणिरुवाच । मायया मे महायोगिन् दुर्लभं किं भवेद्वद । कृपया मेऽत्र पश्यंति भक्तास्तान् चर्म- चक्षुषा ॥६४॥ स्वानंदः सर्वरूपश्च तत्र मार्गं वदामि ते । भेदयुक्तैर्गणा मे वै दृश्यंते भेदसंयुताः ॥६५॥ भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने । दृश्यंते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥६६॥ जलादिषु यथा बिंबं भवते तादृशं किल । तथा मदीयलोकस्था दृश्यंते सर्वमंडले ॥६७॥ एतत्ते कथितं सर्वं ममलोकविचेष्टितम् । अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥६८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते स्वानंदस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥