मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 639, कुल 1023 में से
संदर्भ में पढ़ेंमुक्तिं लभेत् ध्रुवम् ॥३३॥ खंडं लंबोदरस्यैतद्यः शृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥३४॥ नानेन सदृशं किंचिद्भक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लंबोदरः स्तुतः ॥३५॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् । तदस्यैकस्य खंडस्य श्रवणेन भवेदिह ॥३६॥ नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः । तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥३७॥ व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो । अस्य श्रवणमात्रेण लभेत् तस्माच्छता- धिकम् ॥३८॥ नानातपांसि सर्वाणि यः करोति नरोऽसकृत् । अस्य श्रवणमात्रेण लभेत् पुण्यमपार कम् ॥३९॥ पुत्रपौत्रादि- संयुक्तो धनधान्यादिभाग्यवान् । श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥४०॥ यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् । श्रवणेन प्रजानाथ खंडस्यास्य न संशयः ॥४१॥ बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः । सर्वसिद्धिप्रदः खंडः कथितस्ते प्रजापते ॥४२॥ इदं लंबोदरस्यैव चरितं सर्वसिद्धिदम् । कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥४३॥ सूत उवाच । यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् । मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥४४॥ चरितं शौनकाद्याश्च श्रुतं लंबोदरस्य यत् । धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥४५॥ विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः । नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥४६॥ व्यासेन कथितं सर्वं चरितं यादृशं पुरा । तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥