मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 64, कुल 1023 में से
संदर्भ में पढ़ेंपरमप्रीता धन्यं धन्यं तमब्रुवन् ॥३३॥ यमं धृत्वा च दैतेया आययुश्चामरावतीम् । इंद्रोऽपि देवसंघैश्च सन्नद्धो वैरभावतः ॥३४॥ अग्निवायुः प्रसन्नद्वावागतौ बलसंयुतौ । देवाः सर्वे महाभागाः स्वस्वलोकात् समाययुः ॥३५॥ विश्वेदेवाश्च साध्याश्च रुद्रा वसव एव च । गंधर्वाश्चैव यक्षाश्च विद्याधरसमायुताः ॥३६॥ ग्रहाश्चंद्रश्च सूर्यश्च आदित्या बलवत्तराः । सन्नद्धाः सर्वदेवास्ते वज्रिणं जग्मुराहताः ॥३७॥ सर्वदेवगणैरिंद्रो रणभूमिं समाययौ । ऐरावतसमारूढो वज्रपाणिर्महाबलः ॥३८॥ देवसैन्यं सुसन्नद्धमागतं स्वबलान्वितम् । दृष्ट्वा दैत्यगणाः सर्वे जघ्नुः शस्त्रप्रहारतः ॥३९॥ देवा जघ्नुश्च तान् शस्त्रैर्महाक्रोधसमन्विताः । एवं परस्परं तत्र तुमुलं युद्धमप्यऽभूत् ॥४०॥ मृता दैत्यास्तथा देवैस्ताडिताः शस्त्रघाततः । दैत्यैर्हताश्च देवास्ते छिन्ना भिन्नाः सुमूर्च्छिताः ॥४१॥ एवं परस्परं युद्धं देवदैत्यविनाशनम् । सप्तरात्रमभूत्तीव्रं ततो दैत्याः पलायिताः ॥४२॥ विरोचनादयः सर्वे मूर्च्छिता धरणीतले । जयवंतः सुरेंद्रास्ते वदंतः स्म प्रहर्षिताः ॥४३॥ एतद् दृष्ट्वा महाश्चर्यं सुंदरप्रिय आगतः । ज्येष्ठपुत्रो मत्सरस्य युयुधे सर्वदैवतैः ॥४४॥ शस्त्रास्त्रैर्मल्लयुद्धैस्तन् मर्दितं तेन सर्वशः । देवसैन्यं दिक्षु तत्र पलायत भयातुरम् ॥४५॥ शोणितप्रस्रवास्तत्र नद्यो जाताः प्रजापते । इंद्रोऽपि युयुधे तेन दैत्यपुत्रेण धीमता ॥४६॥ वज्रेण निहतस्तत्रेंद्रेण दैत्यो महाबलः । न चचाल तदाश्चार्यमिंद्रचेतसि संगतम् ॥४७॥ दैत्यपुत्रः समागत्य खड्गेनैरावतं गजम् । मूर्छितं कारयामास वज्रिणं च पदाग्रहीत् ॥४८॥ मर्दयित्वा सुरेशानं स्ववशं च चकार ह । धृत्वा पुरंदरं सोऽपि स्वस्थानमगमन्मुदा ॥४९॥ दैत्यैः संपूजितस्तत्र महाबलपराक्रमः । सुंदरप्रियपुत्रोऽभून् मत्सरस्य प्रहर्षितः ॥५०॥ देवाः केचिद् धृतास्तत्र केचिद्वै मूर्च्छिताः कृताः । केचित् पलायिता दक्ष भग्नाः केऽपि विचूर्णिताः ॥५१॥ एवं स सकलान् देवान् वशांश्चक्रे महाबलः । मत्सरासुर एवाऽयं स्वर्गाधीशो बभूव ह ॥५२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते मत्सरासुरविजय इंद्रपराजयो नाम सप्तविंशतितमोऽध्यायः ॥