भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 657, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 657

योगींद्रा गच्छंति गणनायकम् । बुधैस्तद् द्वारमाख्यातमुत्तरांगं विशेषतः ॥५१॥ ततो गणेश्वरस्यैव पूर्वांगान्निःसृतं परम् । ब्रह्मानंदमयं पूर्णं समभागप्रकाशकम् ॥५२॥ सत्यासत्यात्मके देवाः समरूपेण संस्थितम् । वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥५३॥ लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः । द्विविधं शोभया युक्तं कृतं तया विशे- षतः ॥५४॥ लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः । शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥५५॥ यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् । भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥५६॥ तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः । आनंदभुक् विशेषेण द्वंद्वमायाधरो बभौ ॥५७॥ तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते । आनंद- वाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥५८॥ गणेशप्राप्तये देवा द्वारमानंदधारकम् । तच्च क्षेत्रस्य पूर्वांगं गाणेशस्य प्रकथ्यते ॥५९॥ ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् । निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥६०॥ तदेव शांकरं ब्रह्म सहजं सर्वसंमतम् । मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥६१॥ स्वेच्छारूपा महामाया पार्वती कथिता बुधैः । इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥६२॥ तत्र मोहविहीनश्च शंकरः कथ्यते परः । स्वाधीनः शैवभक्तेभ्य- श्रुत्यर्थं ब्रह्म उच्यते ॥६३॥ तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् । द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥६४॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥६५॥ तदेव गणराजस्य क्षेत्रं स्वानंदवाचकम् । चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥६६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते स्वानंदक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥

❧ ❖ ☙

॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः । अधुना द्वारविस्तारं कथयामि समासतः ॥१॥ पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ । ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥२॥ ब्रह्मांडॆ वैष्णवान्येव क्षेत्राणि विविधानि च । तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥३॥ लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु । लक्ष्मीवास- कराण्येव प्रोक्तानि शास्त्रसंमतम् ॥४॥ दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः । गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः