मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 659, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. ६ अ. ८ | पान १८
हर्षसमन्विताः । तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥३१॥ सक्षेत्रा देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥३२॥ किमर्थं तु वयं सर्वे सृष्टा वद गजानन । कार्यं ब्रूहि करिष्यामस्त्वदाज्ञा- वशभावतः ॥३३॥ स्वानंदे वासकार्यार्थं देहि स्थानं महोदर । तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥३४॥ स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते । त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥३५॥ भृशुंडयुवाच । तेषां वचनमाकर्ण्य गणेशः करुणानिधिः । जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥३६॥ श्रीगणेश उवाच । धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे । वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥३७॥ धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा । कामदानि भवंत्येव मोक्षदानि विभागशः ॥३८॥ कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु । कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥३९॥ तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः । दर्शनेन भवंत्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥४०॥ नामानि गणनाथश्च चकार विविधानि सः । काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥४१॥ पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः । क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥४२॥ पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानंदरूपिणि । वासं कृत्वा सदा मां तु भजिष्यथ निरंतरम् ॥४३॥ स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै । क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥४४॥ स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः । मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥४५॥ सर्वक्षेत्राणि ये भूम्यां करिष्यंति विधानतः । देवान् यथाविधि प्राज्ञा पूजयिष्यंति मानवाः ॥४६॥ तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः । ब्रह्मभूता भविष्यंति मत्क्षेत्रे मरणे सति ॥४७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । क्षेत्राणि हर्षयुक्तानि संस्थि- तान्येव तत्र तु ॥४८॥ पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः । सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥४९॥ यथा गजाननः प्राह तथा सर्वे महेश्वराः । कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥५०॥ तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः । स्वानंदक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥५१॥ एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा । पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥