मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 664, कुल 1023 में से
संदर्भ में पढ़ेंखं ६ अ. ११ पान २३ ॥ श्रीगणेशाय नमः ॥ भृगुंड्युवाच । चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् । ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥१॥ गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् । द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥२॥ दक्षिणस्यां गणेशान्दू द्विगुणं द्वारमुत्तमम् । पूर्वद्वाराच्च संप्रोक्तं ज्ञातव्यं विबुधैः सदा ॥३॥ ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् । द्विगुणं दक्षिणांगात्तु किंचिन्न्यूनं बुधैः पुरा ॥४॥ गणेशादुत्तरे भागे परं द्वारं च संस्थितम् । पश्चिमात् पादहीनं तदधिकं किंचि- दंजसा ॥५॥ एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः । नवखंडाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥६॥ क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः । प्रगच्छंति लयं नैव रक्षितानि स्वदैवतैः ॥७॥ महाप्रलयवेलायां तत्त्वानि त्रिगुणैः सह । लयं गच्छंति वेगेन कालस्य परमात्मनः ॥८॥ तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च । लयं गच्छंति देवेशा निश्चितं योगिभिः पुरा ॥९॥ महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् । नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥१०॥ देवेशा ऊचुः । क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः । कथं नाशविहीनं तद्वद योगींद्रसत्तम ॥११॥ स्वानंदः सर्वसंयोगे जायते नाऽत्र संशयः । क्षेत्रस्याख्या कथं प्राप्ता स्वानंदस्य वद प्रभो ॥१२॥ भृगुंड्युवाच । क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते । ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥१३॥ यथा स्वानंदरूपश्च स्वसंवेद्यात्मकः स्मृतः । तथा स्वानंदक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥१४॥ देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् । तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥१५॥ आंतिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह । आंतिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥१६॥ संगहीनतया सर्व स्त्रीपुंभावसुखं स्मृतम् । गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥१७॥ बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो । क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥१८॥ यत्किंचिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् । लोकादिकं मुनींद्रैश्च ब्रह्मणस्पति- रुच्यते ॥१९॥ गणेशक्षेत्रसंभूतानि क्षेत्राणि समंततः । तत्रैव मरणे देवाः फलदानि भवंति च ॥२०॥ धर्मार्थकाम- मोक्षाणां प्रदानि कथितानि तु । गाणेशं पंचमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥२१॥ ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः । संस्थितास्तत्र लभ्यंते यात्राकारिजनैः पराः ॥२२॥ क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् । नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥२३॥ सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् । साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥२४॥ कमल- मस्तकस्थत्वात् पश्चादासुरकं स्मृतम् । तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥२५॥ यद्वैकद्वारयात्रां यः करोति च