मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 67, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. २९ पान ६७ बलगर्वितः । तृणीकृत्य महेशानं सर्वान् देवांस्तदांधकः ॥१९॥ अंधक उवाच । मत्सरासुरवाक्यं च शृणुध्वं सुरसत्तमाः । जित्वेंद्रं देवनाथं च जातोऽहं जगदीश्वरः ॥२०॥ अतो मद्दर्शनार्थं च भवंतोऽपि सहानुगाः । ब्रह्मा विष्णुश्च रुद्रश्च आगच्छंतु मदंतिकम् ॥२१॥ तस्माद्भवद्भिश्चैव मया सह सुरेश्वराः । आगंतव्यं मत्सरस्य दर्शनार्थं तु सत्वरम् ॥२२॥ अंधकस्य वचः श्रुत्वा शिवः क्रोधसमन्वितः । उवाच तं महादैत्यं मुखादग्निं समुद्विरन् ॥२३॥ शिव उवाच । किं मां वदसि पापिष्ठ तृणीकृत्य च यत् वचः । मद्धरस्य प्रभावेण मत्सरो विजयी ध्रुवम् ॥२४॥ यदाऽहं क्रोधसंयुक्तस्तदा भस्ममयं खलम् । करिष्यामि न संदेहः सासुरं मत्सरं खलु ॥ २५ ॥ मत्सराज्ञावशोऽहं रे किं प्रजातोऽसुराधम । मत्वा त्वां मूढ दूतेति मोच्यामि न संशयः ॥ २६ ॥ गच्छ तं मत्सरं दैत्यं वद वाणीं मयेरिताम् । नोचेत्त्वां भस्मसात् कुर्यां कुपितोऽहं खलोत्तम ॥ २७ ॥ शिवस्य वचनं श्रुत्वा मत्सरं त्वंधको ययौ । कथयामास वृत्तांतं सर्वदैत्ययुताय च ॥ २८ ॥ विभवं वर्णयामास कैलासस्य यथायतथम् । ब्रह्मांडॆ न समं किंचित् कैलासस्य महासुराः ॥ २९ ॥ अंधकस्य वचः क्रूरं श्रुत्वा दैत्याः महाबलाः । विरोचनमुखाः सर्वे मत्सरं क्रूरमब्रुवन् ॥ ३० ॥ किं स्थितोऽसि महाबाहो जेष्यामस्त्वत्प्रसादतः । देवत्रयं न संदेह आज्ञां देह्यासुरेश्वर ॥३१॥ दैत्यानां वचनंश्रुत्वा तेजोयुक्तं स मत्सरः । उवाच क्रोधसंयुक्तान् दैत्यान् हर्षयन्निव ॥३२॥ मत्सर उवाच । मया तपःप्रभावेण प्राप्तं तेजो महाद्भुतम् । तत्र शंभुर्वृथा मानी स्वात्मानं मन्यतेऽर्थदम् ॥ ३३॥ तपोहीनाय राज्यं वै ब्रह्माण्डस्य ददाति चेत् । तदायं जगदीशॊ वै मन्यते नान्यथा मया ॥ ३४ ॥ अतः शंभुं विजेष्यामस्तपस्तेजः- समन्वितः । दर्पं तस्य हरिष्यामि वृथा ब्रह्मेति मानिनम् ॥ ३५ ॥ वेदांते ब्रह्मवेदेषु कथितं निर्विकल्पकम् । तदेव सर्वमान्यं वै जगदीशतया बभौ ॥ ३६ ॥ सकामकर्मणा सर्वं प्राप्यते मनुजस्तथा । ब्रह्मार्पणतया कर्म कृतं चेन्मुक्तिराप्यते ॥ ३७ ॥ अखिलं कर्मणा सृष्टं पालितं च प्रहीयते । तत्र किं तैस्त्रिभिर्देवैः क्रियते कर्मजैः खलु ॥ ३८ ॥ कर्मणाऽहं सृजाम्येव पालयामि हरामि च । कर्माधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ३९ ॥ एवमुक्त्वा महादैत्यो विरोचनमुखैर्वृतः । आययौ शंकरस्थानमावेशेन समन्वितः ॥ ४० ॥ नानाशस्त्रास्त्रधाराभिर्हतास्तत्र बहिः स्थिताः । शिवचाराश्च तैः सर्वे पलायंत च पीडिताः ॥ ४१ ॥ छिन्नभिन्नांगदेहाश्च ययुः शंकरसंनिधौ । ऊचुः समागतो दैत्यैः सर्वैः साकं स मत्सरः ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते शिवमत्सरासुरसमागमो नाम एकोनत्रिंशोऽध्यायः ॥