मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 673, कुल 1023 में से
संदर्भ में पढ़ेंभोगमभजन् मृतः कैलासगोऽभवत् ॥२५॥ पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः । नित्यं गणेश्वरं देवमभजद्भक्ति- संयुक्तः ॥२६॥ अंते स्वानंदगो भूत्वा क्षेत्रे मरणतः स्वयम् । ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥२७॥ एवं नाना जना देवा अर्थयुक्ता बभूविरे । तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥२८॥ अधुना पश्चिमद्वारसंभूतं कथयाम्यहम् । चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥२९॥ भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः । दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥३०॥ तेन स्कंदपुराणस्थं माहात्म्यं संश्रुतं कदा । स्वानंदक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥३१॥ देवाः समागतो यात्रार्थं मयूरे पुरा स वै । यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥३२॥ अतीव पीडितः सोऽपि रोगैस्तेन चकार ह । दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥३३॥ ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुक्तः । स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥३४॥ धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः । पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥३५॥ स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् । अंते जगाम शक्तेः स लोकं परमसौख्यदम् ॥३६॥ पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः । मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥३७॥ क्षेत्रसंन्यासभावेन मयूरेशं समाश्रितः । अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥३८॥ अथोत्तरभवां यात्रां शृणुध्वं देवसत्तमाः । कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥३९॥ कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह । व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥४०॥ मुक्तिः संपूर्णभावेन लभ्यते केन कर्मणा । तदेव साधनीयं वै मया मानवदेहिना ॥४१॥ ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह । वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥४२॥ तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः । पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥४३॥ विश्वामित्र उवाच । महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः । अनेकजन्मसंभूतैर्नरो मुक्तिमवाप्नुयात् ॥४४॥ अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज । उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥४५॥ आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः । मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥४६॥ भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ । उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥४७॥ अत्यंतलोलुपत्वात् स मुक्तिद्वारं चकार ह । पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥४८॥ स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः । त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥४९॥ मुक्तियुक्तं