मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 693, कुल 1023 में से
संदर्भ में पढ़ेंतस्य वामांगगः साक्षात्तावन्मानेन संस्थितः। पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥४७॥ कुंडं पुलहतीर्थाख्यं दोषहंतृ स्थितं परम्। भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥४८॥ यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके। कर्तव्या क्षेत्रवासि- भिर्महापुण्यप्रवर्द्धिनी ॥४९॥ दक्षिणांगे क्रतुश्चैव कुंडं कृत्वा स्वतीर्थजम्। गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥५०॥ आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः। यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥५१॥ भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः। च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥५२॥ क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः। शतानि पंच तत् क्षेत्रं धनुषां शौनकादयः ॥५३॥ पूजनीयाश्च पंचम्यामृषयः सर्वभावनाः। श्रवणे मानवैस्तस्त्यैः पुण्यदाः संभवंति च ॥५४॥ पुलहस्य पुरस्तद्भूत् पौलहा मुनयः सदा। तिष्ठंति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥५५॥ क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः। तिष्ठंति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥५६॥ अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः। गणेश- मास्थाप्य विप्राः सेवंते भक्तितत्पराः ॥५७॥ तत्पुरो देवगंधर्वा विश्वावसुपुरोगमाः। धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥५८॥ उर्वशी चैव रंभाद्यास्ततो ह्यप्सरसः पुरः। धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥५९॥ पूजनीया नरैः पुष्पैर्गंधर्वाः पुण्यवर्धनाः। पुर्नवसावप्सरसः पूजनीया विशेषतः ॥६०॥ नानामुनिगणा अन्ये भवंते संस्थिताः पराः। विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥६१॥ श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः। इत्याद्याः बह्ववो देवाः कथयितुं न शक्यते ॥६२॥ स्वखनाम्नांकितांस्ते संस्थाप्य लंबोदरान् सदा। भजंते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥६३॥ पूर्वभागाश्रितं सर्वं कथितं वः समासतः। अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥६४॥ देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम्। धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥६५॥ खनामांकितमास्थाप्य गणेशं भजते सदा। तत्र कुंडं तु वासिष्ठं स्नानेन पाप- नाशनम् ॥६६॥ भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत्। यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥६७॥ तस्य वामांगभागे चात्रिः सर्वार्थप्रदायकः। गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥६८॥ तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम्। कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥६९॥ दक्षिणांगे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत्। खनामांकित- मास्थाप्य ढुंढिं भजति देवपाः ॥७०॥ कुंडं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम्। आसुरभावसंभूतं मलं दहति सेविनाम् ॥७१॥ पूजनीयो धनिष्ठायां विशेषेण महामुनिः। सर्वार्थदायको भावी यात्राकारिण एव च ॥७२॥ वसिष्ठाच्च