मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 706, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २२ पान ६५ निश्चितम् । कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥८५॥ सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः । अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥८६॥ अन्यत् काश्यादि माहात्म्यसंभवं विपरीतगम् । मन्यसे तत्र वक्ष्यामि शृणु संशय- नाशनम् ॥८७॥ आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै । इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥८८॥ यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः । ब्रह्मणो दिवसांते ते मृत्युयुक्ता भवंत्युत ॥८९॥ नराणां तत्र जन्मानि संख्या- हीनानि शौनक । भवंति तेन देवाश्चामराः संकीर्तिता बुधैः ॥९०॥ तथापि पंच देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः । विघ्नयुक्ता अनीशास्ते भवंति पश्य मानद ॥९१॥ महालये मरिष्यंति त्रिगुणैः संयुताः किल । पंच देवा न संदेहो ब्रह्माद्याः शास्त्र- मार्गतः ॥९२॥ तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी । मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥९३॥ इंद्रादीनां विनाशे ते समर्था मृत्युहीनकाः । तेषां जन्ममृती जंतुर्न पश्यति कदाचन ॥९४॥ ईश्वरत्वमतः शास्त्रे कथितं रुचि- कारणात् । जन्ममृत्युविहीनाऽपि मुक्तिः संकथिता बुधैः ॥९५॥ वेदशास्त्रपुराणेषु स्वानंदो लयवर्जितः । सदा ब्रह्ममय- त्वाद्धै तत्र मुक्तिर्विशिष्यते ॥९६॥ स्वानंदेनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् । पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥९७॥ अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसंमतैः । वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥९८॥ मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् । मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥९९॥ पुनर्जन्मनि योगी स भवत्यत्र न संशयः । स्वेष्टं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥१००॥ योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः । मरणे संस्मरेद्योगं स मयूरे भवि- ष्यति ॥१॥ यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् । मरिष्यति न संदेहो महापापयुतोऽपि चेत् ॥२॥ अथवा क्षेत्र- माहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् । यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥३॥ मयूरस्थाय वा यात्रामेव कृत्वा नरोत्तमः । यत्र कुत्र मृतः सोऽन्ते संस्मरेत् स तथा भवेत् ॥४॥ अथवा संगयोगेन गणेशे रुचिमालभेत् । नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥५॥ शिवविष्ण्वादिलोकेषु संस्थितस्तत्र संगतः । गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥६॥ अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः । क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥७॥ योगिनः शांतिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे । लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥८॥ योगिनां मरणे विप्र यादृशं स्मरणं भवेत् । तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥९॥ तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते । अंते मतिर्यथा विप्र गतिः सर्वत्र