भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 710, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 710

खं. ६ अ. २३ पान ६९


॥४०॥ पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् । तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥४१॥ ततो विमानमारुह्य शुक्लगत्या महेश्वराः । मोक्षं जगाम वैश्यः स गणेशकुंडदर्शनात् ॥४२॥ अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् । शूद्रौ मेघमणीसंज्ञौ मालवे संबभूवतुः ॥४३॥ सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ । स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥४४॥ तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ । मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥४५॥ तत्राऽऽवंत्यो द्विजः कोऽपि चकारास्थिप्रसंचयम् । मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥४६॥ स उवाच गणेशस्य क्षेत्रे कुंडं महाद्भुतम् । तत्रास्थित्योगमात्रेण पंचमं लभते पदम् ॥४७॥ अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् । तच्छ्रुत्वा सोऽपि शूद्रास्थ्यास्थिसंचयं चकार ह ॥४८॥ काश्यां दुःखयुतो त्यक्त्वा ममार मणिरैव च । तस्यास्थिसंचयं चक्रे तस्य पुत्रो महेश्वराः ॥४९॥ तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ । काशीं त्यक्त्वा मयूरे किमस्थित्योगं करिष्यसि ॥५०॥ उवाच पितुराज्ञा स मया मान्या निरंतरम् । एतस्मिन्नंतरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥५१॥ तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः । दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥५२॥ ज्ञात्वा वृत्तांतमेतस्य तमुवाच जनार्दनः । ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥५३॥ जनार्दन उवाच । चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय । पंचमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥५४॥ ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः । तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥५५॥ काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयंति तु । अन्यक्षेत्रस्य गास्तद्भून्नयंन्त्यस्थि मयूरके ॥५६॥ ततः संशयहीनः स संपूज्य प्रणाम ह । जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥५७॥ कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत । शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥५८॥ गणेशकुंडं संपूज्य त्यक्त्वा तावस्थिसंचयम् । यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥५९॥ स्वगृहं जग्मतुः शूद्रौ देवेशाः शृणुताऽपरम् । अस्थित्योगप्रभावेण मेघं नेतुं ययुर्गणाः ॥६०॥ शंकरलोकसंस्थं तं गृह्य स्वानंदमाययुः । मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥६१॥ एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः । तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥६२॥ एतद्गणेशकुंडस्य माहात्म्यं शृणुयान्नरः । श्रावयेत् स लभेद्देवा ईप्सितं फलमुत्तमम् ॥६३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गणेशकुंडचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥