मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 723, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. २७ पान ८२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥५२॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥५३॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥५४॥ विष्णुकांच्चास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐंद्र्याः प्रकीर्तितम् ॥५५॥ वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् । ब्राह्मास्तीर्थं ततो रक्तदंतायाश्च प्रकीर्तितम् ॥५६॥ ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् । ततश्चांगिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥५७॥ जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम्। कार्तवीर्यस्य तीर्थं तु मांधातुश्च ततः परम् ॥५८॥ ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् । भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥५९॥ गौतमस्य ततस्तीर्थं पांडवैश्च ततः कृतम् । ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥६०॥ पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् । तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥६१॥ उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी । तत्र पिंडप्रदानेन ब्रह्मभूताः पितामहाः ॥६२॥ पितरश्च तथाऽन्ये वै भवंति क्षेत्रकारणात् । ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥६३॥ ततः परं मुनीनां तु तीर्थानि विविधानि च । कथयितुं न शक्यानि मया केनापि निश्चितम् ॥६४॥ भैरवाणां ततस्तीर्थं स्कंदस्य च ततः परम् । नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥६५॥ वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च। पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥६६॥ साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम्। सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥६७॥ अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः। तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥६८॥ व्यासतीर्थात् स्वयं ब्रह्मा प्रयाग- संयुतः स्थितः । तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥६९॥ कर्मतीर्थं ततः पश्चात्ततोऽग्रेस्तीर्थमुत्तमम् । द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥७०॥ शिवकांच्चास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् । पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृंतनम् ॥७१॥ ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः । तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥७२॥ महाकाल्यास्ततस्तीर्थं नारसिंहास्ततः परम्। शाकंभर्यास्ततः प्रोक्तं चामुंडायास्ततः परम् ॥७३॥ त्रिपुरायास्तनस्तीर्थं ततस्तीर्थानि देवपाः। महामाया- युतानां वै शक्तीनां विविधानि च ॥७४॥ चतुःषष्टिमितानां च योगिनीनां मतानि वै। तीर्थानि योगादान्येव परदेहजकानि च ॥७५॥ ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् । मार्कंडेयस्य तीर्थं तु भैरवाणां ततः परम् ॥७६॥ कालभैरवतीर्थं तु ततः ऋतुमुखाः परम् । तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥७७॥ ततो रैवतकं तीर्थं ततो योगमयं परम् । जडभरततीर्थं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖