मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 734, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ३२ पान ९३ राक्षसेशः प्रतापवान् । सावधानो बभूवाऽपि पपाल भयसंकुलः ॥५०॥ जययुक्ता महेशानाः प्रणेमुर्विकटं ततः । जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । कामासुरवधार्थाय भक्तियुक्ता गजाननम् । देवर्षयः प्रार्थयंतो निःकामाः कथमप्यहो ॥१॥ आदिशक्तिरुवाच । अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः । शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥२॥ स्वदेह- पोषणार्थं यशोर्थं भावसंयुताः । भजंते कामसंयुक्ता देवं जानीत तान्नरान् ॥३॥ स्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये । निःकामास्ते भजंते तं देवं भावसमन्विताः ॥४॥ निःकामिका कृता भक्तिर्देवैशैः शृणुत प्रियाः । तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥५॥ सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः । वयं तदेव सेवा ते खेलसि त्वं गजानन ॥६॥ हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः । भुंक्षे तेन गणेशान सेवा ते देहपोषिका ॥७॥ तव प्रीत्यर्थमानंदात् प्रकुर्मः स्वधर्मजाम् । क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥८॥ अधुना दैत्यमुख्येन सेवा ते खंडिता परा । असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥९॥ एवं संप्रार्थितो देवैर्विकटो नात्र संशयः । देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥१०॥ स्वधर्मसंयुक्तैः सर्वैः स्वस्वव्यापारजा क्रिया । कर्तव्या ढुंढिप्रीत्यर्थं निःकामा सा मता किल ॥११॥ अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् । विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥१२॥ कुंभकर्णादयः सर्वे जग्मुर्भयसमन्विताः । कामा- सुरं महावीर्यं वृत्तांतं तं न्यवेदयन् ॥१३॥ मयूरेशः समायातो विकटश्चेति कथ्यते । देवैः संप्रार्थितो नाथ हनिष्यति महासुरान् ॥१४॥ तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः । वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥१५॥ शरणं विकटं चैव शुभदं ते भविष्यति । अन्यथाऽसुरसंघानां विनाशो निश्चितोऽधुना ॥१६॥ कुंभकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् । निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥१७॥ बलिरुवाच । किं भ्रांतोऽसि विशेषेण वदसे विकलो यथा । कामा-