भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 742, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 742

ख. ६ अ. ३५ पान १०१ स्वरूपिणे । योगिभ्यः शांतिदात्रे ते योगेशाय नमो नमः ॥३७॥ अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे । ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥३८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥३९॥ त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च । लंबोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥४०॥ देवानां पालकायैव दैत्येभ्यो वरदायिने । सर्वेषां समभावाय ढुंढिराजाय ते नमः ॥४१॥ विष्णपुत्राय शंभोश्च शक्तेः पुत्राय काश्यप । वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥४२॥ किं स्तौमि त्वां गणाधीश यत्र योगींद्रमुख्यकाः । वेदादयो विशेषेण शांतिं प्राप्ताः स्वभा- वतः ॥४३॥ मायासखं विशेषेण भ्रांतिदं सर्वजंतवे । त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥४४॥ अशांतं मायया युक्तं चित्तं भ्रांतियुतं सदा । विकटे शांतिमापन्नमतस्त्वं विकटो मतः ॥४५॥ एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमो- ऽभवत् । कामासुरो ननर्ताऽसौ रुद्धकंठो महायशाः ॥४६॥ भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् । वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥४७॥ त्वां हंतुं क्रोधयुक्तोऽहं समागतो न संशयः । अधुना न हनिष्यामि शरणागतमाद- रात् ॥४८॥ त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् । शृण्वते पठते चैवांते स्वानंदप्रदायकम् ॥४९॥ एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् । प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥५०॥ कामासुर उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥५१॥ गाणपत्यप्रियत्वं मे देहि नित्यं गजानन । नान्यद्याचे परं किंचिन्नश्वरं सर्वमंजसा ॥५२॥ अहो योगींद्रमुख्यानां दुर्लभं ते पदं प्रभो । साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥५३॥ तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः । उवाच तं महाभक्तं कामं गणेशकामुकम् ॥५४॥ विकट उवाच । मदीया भक्तिरुग्रा ते भविष्यति महासुर । गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥५५॥ तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव । मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥५६॥ आदौ तत्रासुरेणैव फलं भुंक्ष्व सुकर्मजम् । मदीयभक्ति- संयुक्तान् कुरु मत् कामसंयुतान् ॥५७॥ तथेति गणपं नत्वा सुरः कामो महायशाः । स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥५८॥ तं शांतं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः । स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥५९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरशांतिवर्णनं नाम पंचत्रिंशत्तमोऽध्यायः ॥