मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 745, कुल 1023 में से
संदर्भ में पढ़ेंदिकास्तत्र गणाः सर्वत्र संस्थिताः । शस्त्रहस्ता भजंते स्म विकटं विकटप्रियाः ॥४५॥ तत्र विकटतीर्थं तु विख्यातमभवत् परम् । जंतुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥४६॥ अंते मुक्तिमवाप्नोति स्वानंदे नात्र संशयः । विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥४७॥ अन्यानि तीर्थमुख्यानि देवर्षीणां समंततः । स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥४८॥ अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् । विकटस्य च ते तस्य लोकं गच्छंति निश्चितम् ॥४९॥ तत्र भोगान् प्रभुक्त्वा ते लये स्वानंदगामिनः । विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥५०॥ क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः । दर्शनेन तथा तस्य विकटस्य न संशयः ॥५१॥ विकटस्य च ये भक्ता यत्र कुत्र मृता यदि । ब्रह्मभूता न संदेहो बभूवुः शास्त्रसंमतम् ॥५२॥ भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् । विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥५३॥ भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः । वार्षिकस्तत्र कुर्वंति देवाद्या भक्तिसंयुताः ॥५४॥ मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् । स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥५५॥ धन्यास्ते पुरुषा लोके पश्यंति विकटं परम् । कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥५६॥ तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः । भजंते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥५७॥ विकटस्य चरित्राणि कथयंति परस्परम् । साश्रुनेत्राः स रोमांचा भवंते भक्तिभावतः ॥५८॥ नरदेहं समासाद्य न दृष्टो विकटो जनैः । निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥५९॥ एतत् संक्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसंभवम् । विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥६०॥ अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः । न समर्था वर्णयितुं भवंते वर्षकोटिभिः ॥६१॥ एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः । विकटः कलया देव्यो रक्षति स्म चराचरम् ॥६२॥ एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा स लभेत् सर्वमंते ब्रह्ममयो भवेत् ॥६३॥ न कामस्य भयं तस्य भवेद्वैव्यः कदाचन । कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥६४॥ एवं कामं निगृह्यैव स्ववशं तं चकार ह । विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥६५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥