मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 748, कुल 1023 में से
संदर्भ में पढ़ेंखं. ६ अ. ३८ पान १०७ शशिसन्निभम् । जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥२१॥ एकादशदिने नाम गुणेश इति चक्रिरे । द्विजाः शिवौ हर्षयुक्तौ पूजयामासतुर्द्विजान् ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततः सिंधुचरास्तत्र गुप्तरूपेण संस्थिताः । ज्ञात्वा संकथयामासुर्वृत्तांतं सिंधवे परम् ॥१॥ एतस्मिन्नंतरे वाणी बभूवे तत्र शक्तयः । अशरीरा च तां सिंधुं शुश्राव भयदायिनीम् ॥२॥ अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः । स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥३॥ श्रुत्वा संमूर्च्छितो दैत्यः सावधानो बभूव ह । मुहूर्तेन महायत्नैस्ततः शुशोच मंदधीः ॥४॥ तं हंतुं प्रेषयामास दैत्येंद्रान् दैत्यनायकः । गुप्तरूपेण ते सर्वे त्रिसंध्या- क्षेत्रमाययुः ॥५॥ नानामायां समाश्रित्य तं हंतुं तान् समागतान् । पशुपक्ष्यादिरूपस्थान् जघान शिवनंदनः ॥६॥ ततः सा पार्वती देवी शुशोच बहुधा सती । अह्ना संख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥७॥ तथापि दैत्या राजानः किं करिष्यंति मे सुतम् । हनिष्यंति गुणाधीशं न जानामि विचारतः ॥८॥ साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह । भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥९॥ ततो मायां गुणेशानश्चकार मोहिनीं पराम् । तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥१०॥ एतस्मिन्नंतरे योगी मरीचिर्गणपं भजन् । प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥११॥ ततः सोऽपि महायोगी शुश्राव खवचोऽमलम् । शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥१२॥ श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह । प्रणम्यापूज्य संभोज्य प्रार्थयामास तं मुनिम् ॥१३॥ त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् । त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥१४॥ यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् । अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥१५॥ दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् । समायाति गणेशानं हंतुं भवंति ते मृताः ॥१६॥ अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः । स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥१७॥ शंकरेण गणेशानः सेवितोऽभून्