भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 750, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 750

खं. ६ अ. ३८ पान १०९

॥४३॥ तथेति बालभावेन गुणेशेन कृतं वचः । बालं जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥४४॥ अहो सिंधोर्महाशत्रुर्मया संभक्षितोऽभवत् । सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥४५॥ एतस्मिन्नंतरे तत्र जगदंबा तमाययौ । शैवं द्विजं प्रहस्यैव प्रणनाम जगाद च ॥४६॥ पार्वत्युवाच । स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ । त्वदीये नात्र संदेहः पादं पश्यामि नो पुरः ॥४७॥ पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् । परश्वादिकचिह्नेन वद सत्यं महामते ॥४८॥ द्विज उवाच । न दृष्टः शैलजे पुत्रो मया तव न संशयः । शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥४९॥ ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् । ततस्तस्य मुखांभोजान्निःसृतो गणनायकः ॥५०॥ निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः । स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥५१॥ ततः सा हर्षिताऽत्यंतं क्रोधहीना बभूव ह । पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगा- ऽभवत् ॥५२॥ पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः । पुनः पुनः स जृंभां च चकार विकटाननः ॥५३॥ तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता । किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥५४॥ ततः सा तन्मुखे विश्वं ददर्श भयसंकुला । अनंतांडसमायुक्तं पपात धरणीतले ॥५५॥ स्वगुरुं शंकरं सा तु सस्मार स्वेष्टदेवकम् । गणेशं तेन मोहेन हीना बभूव पार्वती ॥५६॥ विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् । तं त्यक्त्वा लिंगसेवायां निरता मूर्खवत् किल ॥५७॥ पतिभावेन देवेशं शंकरं देहधारिणम् । भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥५८॥ स्तनपानं गणेशाय न दत्तं मूढभावतः । अनंता वै मया यत्र संस्थिताः शंकरादयः ॥५९॥ तेन तुष्टेन सर्वे ते संतुष्टाः संभवंति च । गणेशो ब्रह्मणां नाथः सोऽपि संतुष्ट एव वै ॥६०॥ अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ । गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥६१॥ अतः परं गणेशानं पुत्रभावेन चागतम् । सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥६२॥ अयं पतिरयं तातो माता पुत्रः सुहृत्तथा । देवो ब्रह्म न संदेहो गुणेशो मे सुशांतिदः ॥६३॥ एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् । तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकंधरा ॥६४॥ स्तुवंतीं तां समालोक्य गणेशो मोहमादधे । ततः संमोहिता देवी विस्मृतिं परमां ययौ ॥६५॥ पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् । गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥६६॥ शक्तय ऊचुः । बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः । पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥६७॥ किमर्थमखिलं विश्वं नाना- ब्रह्मांडसंयुतम् । शिवरूपं किमर्थं स दर्शयामास शक्तये ॥६८॥ दर्शयित्वा किमर्थं स लोपयामास तद्भवम् । ज्ञानं कुतूहलं

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 750, कुल 1023 में से · BharatKosha