मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 780, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ कश्यप उवाच । समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः । दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्म- भेदिभिः ॥१॥ देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुंगवान् । अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥२॥ रज- स्तिमिरभावेन स्वपरज्ञानवर्जिताः । पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥३॥ दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् । ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥४॥ ततो रजोऽभवच्छांतं प्रकाशसंयुताः पुनः। दैत्या देवा विवेकेन युयुधुर्जात- संभ्रमाः ॥५॥ ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् । पपाल दैत्यसंघैस्तद्धतं हर्षसमन्वितैः ॥६॥ ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः । आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥७॥ तैः समंतान् महास्त्रैस्तद्वलं संमर्दितं परम् । दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥८॥ ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते । जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेंद्रकान् ॥९॥ दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसंभ्रमाः । युद्धं तत्राऽभवद्धोरं दिनैकं जयमिच्छताम् ॥१०॥ ततो दैत्येंद्रमुख्यास्ते पतिता मूर्च्छया युताः । पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥११॥ ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ । प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥१२॥ ततः काव्येन दैत्येंद्रा जीविताः पुनरुत्थिताः । युयुधुस्ते महावीरा देवैः परमदारुणाः ॥१३॥ दैत्यैर्धर्मश्च संक्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ । बभूवतुश्च देवेंद्रान् मूर्च्छितां- श्चक्रतुर्मृधे ॥१४॥ न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् । असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥१५॥ ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ । अनु तं जगदंबा सा भानुर्विष्णुर्ययौ पुरः ॥१६॥ तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् । न वक्तुं शक्यते देवि ब्रह्मांडभयकारकम् ॥१७॥ अधर्मो विष्णुना सार्धं धर्मः शंकरमाययौ । कालजिह्नानुना सार्धं प्रेतः शक्त्या महाबलः ॥१८॥ कपालः कालरुद्रेण काल्या धर्मघ्न एव च । नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥१९॥ दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् । ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥२०॥ कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः । प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥२१॥ त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् । चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥२२॥ चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् । हतं सर्वत्र देवेशैर्हाहाकाररवा- कुलम् ॥२३॥ शोणितौघा महानद्यस्तत्र जाता भयानकाः । छिन्नभिन्नाश्च दैत्याद्याः पप्लुः सर्वतोदिशम् ॥२४॥ तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने । ततो ममासुरः क्रुद्धः संग्रामाय ययौ स्वयम् ॥२५॥ पुरः स्थितं शिवं वीक्ष्य जगाद