मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 785, कुल 1023 में से
संदर्भ में पढ़ेंखं ७ अ. ७ पान १५ धितं पूर्णं देहधारि बभूव ह ॥१४॥ अधुना तत् समायातं देवागारेषु दैत्यप । तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥१५॥ स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप । स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥१६॥ स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः । दैत्याः पातालगा भूत्वा तिष्ठंतु सुखसंयुताः ॥१७॥ वर्णाश्रमयुता लोकास्तिष्ठंतु नित्यमादरात् । एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥१८॥ एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी । मा गर्वं कुरु दैत्येंद्र नारदाज्ञावशो भव ॥१९॥ नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् । अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥२०॥ ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह । शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥२१॥ शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः । प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥२२॥ ममासुर उवाच । त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् । देवानां हितमत्यंतं नाऽहं यामि गजाननम् ॥२३॥ आदौ मया विशेषेण सेवितोऽयं महामुने । मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥२४॥ मरणं मे यदा प्राप्तं भविष्यति यशस्करम् । शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥२५॥ तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् । मा चिंतां कुरु दैत्येंद्र नायं देवसहायवान् ॥२६॥ देवा मद्युता जाता दैत्यान् जघ्नुः प्रमो- हिताः । दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥२७॥ तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् । देवान् मदविहीनांश्च चकार विघ्ननायकः ॥२८॥ अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् । कर्मनाशनतः सर्वान् देवान् हंतुं समुद्यतः ॥२९॥ कर्मनाशप्रभावेण देवा नष्टा भवंति च । निर्देवं विश्वमत्यंतं तदा भवति सर्वदा ॥३०॥ अतस्त्वां हंतुमुद्युक्तो विघ्नराजो महासुर । स्वस्वधर्मयुतांश्चेत्तान्न हंति ब्रह्मनायकः ॥३१॥ सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् । सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥३२॥ विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद । कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥३३॥ आनंदं ब्रह्म वेदेषु कथितं सदसन्मयम् । न तत्त्वसंयुक्तं दैत्य तत्त्वहीनं न विद्यते ॥३४॥ सर्वत्र योगभावेन संस्थितं द्वंद्वधारकम् । स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥३५॥ तेनैव त्रिविधं सर्वं रचितं योगमायया । स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमंजसा ॥३६॥ यदा गर्वयुता दैत्य जंतवश्चेश्वरादयः । त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥३७॥ सर्वैरवध्यतां प्राप्य कुर्वंति मनसीप्सितम् । तदाऽयं देहधारी संभवते मदनाशकः ॥३८॥ असन्मयो गणेशस्य देहः सन्मय मस्तकम् । तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥३९॥ नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः । ममा-