मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 807, कुल 1023 में से
संदर्भ में पढ़ेंखं. ७ अ. १६ पान ३७ कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥२६॥ तीर्थानि विविधान्येव साधयित्वा फलं लभेत् । तेभ्योऽधिकं लभेत् पुण्यं खंडस्यास्य श्रवान्नरः ॥२७॥ यज्ञानां सांगजातानां फलं तस्मात् प्रजापते । अधिकं श्रवणादस्य लभेत् खंडस्य मानवः ॥२८॥ इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः । तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥२९॥ पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः । आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥३०॥ वंध्यादिदोषभावेन पीडितो यदि मानवः । अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥३१॥ यस्य गेहे स्थितश्चायं खंडो विघ्नेशभक्तिदः । कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥३२॥ नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा । ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥३३॥ धर्मार्थ- काममोक्षाणां दायकोऽयं प्रकीर्तितः । ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥३४॥ बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् । संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥३५॥ इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् । भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥३६॥ न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् । साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥३७॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । दक्षो हृष्टमनास्तं तु प्रणनाम कृतांजलिः ॥३८॥ मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् । यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥३९॥ भवतां संगयोगेन पावितोऽहं न संशयः । श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥४०॥ विघ्नराजसमं नैव यथा विप्र तथा परम् । चरित्रं विघ्नराजस्य सर्व- सिद्धिप्रदायकम् ॥४१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे सप्तमः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥