मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 828, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ८ पान १९ नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेंद्र देवात्मकाय । दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वे- श्वराय ॥१९॥ नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते । अनंतैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥२०॥ तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् । स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥२१॥ अतो वेदवादा विशेषेण धूम्रा भवंति ह्यहो वर्णितुं ते स्वरूपम् । बुधैः कथ्यसे धूम्र- वर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥२२॥ सुशांतिं गता वेदयोगींद्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे । वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥२३॥ श्रीशिव उवाच । एवं स्तुत्वा गणेशानं प्रणेमुरमर्षयः । तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥२४॥ धूम्रवर्ण उवाच । वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषतः । देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥२५॥ स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं विप्रा भविष्यति न संशयः॥२६॥ पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् । आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥२७॥ पठते शृण्वते देवा नानाभाव- प्रपूरकम् । धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥२८॥ मारणोच्चाटनादीनि ह्येकविंशतिपाठतः । एकविंशतिभिर्नित्यं दिवसैः प्रभवंति हि ॥२९॥ परकृत्यादिकं सर्वं नाशमेति न संशयः । अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥३०॥ यं यं चिंतयते कामं तं तं दास्यामि सर्वदा । स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥३१॥ श्रीशिव उवाच । देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् । प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥३२॥ देवर्षय ऊचुः । धूम्रवर्ण त्वया नाथ कृतः शांतिधरः सदा । अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥३३॥ अहंकारे प्रशांते तु स्वाधिकारे वसामहे । वर्णाश्रमयुता लोका भविष्यंति द्विजादयः ॥३४॥ वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् । अहंकारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥३५॥ तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः । अंतर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥३६॥ स्थापयामासु- रानंदात् धूम्रवर्णं दिगंतगे । क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥३७॥ स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः । सुखिनः स्वस्वकार्येषु वर्तंते गणपे रताः ॥३८॥ एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् । अहंकारभयघ्नं च पठतां शृण्वतां भवेत् ॥३९॥ एवं नानावतारान् स धूम्रवर्णः प्रतापवान् । धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥४०॥