मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 838, कुल 1023 में से
संदर्भ में पढ़ेंखं ८ अ. १३ पान २९ ॥ श्रीगणेशाय नमः ॥ श्रीशिव उवाच । बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः । शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥१॥ बाल्यात् प्रारभ्य शंभुं सोऽभजद्भावपरायणः । नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥२॥ शुक्रः पंचाक्षरं मंत्रं ददौ तस्मै महात्मने । सविधिं शंकरस्यैवादिशेश तपसे मतिम् ॥३॥ सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः । प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥४॥ मुद्गल उवाच । जगाम वरदो बाणं शंकरः करुणानिधिः । स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥५॥ प्रसन्नो भगवान् प्राह वरान् वृणु महामते । दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥६॥ बाणासुर उवाच । वरदोऽसि महादेव भक्तिं देहि त्वयि स्थिराम् । शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥७॥ बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् । न मत्समः प्रसंग्रामे संभवेत् सचराचरे ॥८॥ तथेति तं महादेवो जगाद भक्तमुत्तमम् । ययौ स्वनगरं शंभुः पार्वत्या गणसंयुतः ॥९॥ ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् । सुरान् राज्यं चकाराऽसौ धर्म- निष्ठः स्वभावतः ॥१०॥ स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् । नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥११॥ वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः । नित्यं कैलासगो भूत्वा पूजयच्छंकरं प्रभुम् ॥१२॥ तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः । वासार्थमाययौ शंभुर्नगरे तस्य पार्षदैः ॥१३॥ ततः स शांभवे दैत्यो विचारमकरोत् हृदि । पंचायतन- रूपेण शंकरः प्रबभूव ह ॥१४॥ एकनिष्ठतया शंभुं भजिष्यामि विशेषतः । नान्यं जानामि देवेशं शंकरादपरं कदा ॥१५॥ पूजिते शंकरे सर्वं पूजितं सचराचरम् । मया वेदविवादेषु तथा संकथितं बुधैः ॥१६॥ एकनिष्ठा समा भक्तिर्न भूता न भविष्यति । अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥१७॥ तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः । कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥१८॥ ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् । द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥१९॥ एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् । एकनिष्ठतया शंभुं पूजयन्नित्यमादरात् ॥२०॥ एवं वर्षे गते पूर्णे शंकरं पूज्य भक्तितः । शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥२१॥ ततः प्रसन्नतां यातः शिवः कल्याणदायकः । जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥२२॥ शिवस्य वचनं श्रुत्वा हर्षितो बलिनंदनः । जगाद तं महादेवं प्रणिपत्याति- भक्तितः ॥२३॥ बाणासुर उवाच । योद्धारं देहि देवेश सदृशं बलसंयुतम् । सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥२४॥ तच्छ्रुत्वा कुपितः शंभुर्ददौ शापं महात्मने । राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥२५॥ वासुदेवेन संग्रामं करिष्यस्य-