मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 880, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ३२ पान ७१ युतांल्लोकांन् चकार शंकरः प्रभुः । नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥३२॥ एकनिष्ठतया शंभुः सिषेवे गणनायकम् । नित्यं ध्यानपरो भूत्वा तमेवाचिंतयत् प्रभुम् ॥३३॥ एवं श्रावणमासस्य व्रतं ते कथितं मया । येन व्रतप्रभावेण शंभु- र्जिग्ये जलंधरम् ॥३४॥ इदं यः शृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालंधरवधो नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अवंतीनगरीमध्ये बभूव ब्राह्मणोत्तमः । गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥१॥ शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः । चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥२॥ स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् । यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥३॥ गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् । एकनिष्ठ- तया दृष्ट्वा तमुवाच कृतांजलिः ॥४॥ गालव उवाच । पंचभूतात्मको देहो नश्वरः सर्वसंमतम् । देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥५॥ योगींद्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः । ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥६॥ अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् । कथं देहधरः सोऽपि बभूव च गजाननः ॥७॥ रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् । तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥८॥ गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् । स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥९॥ सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा । त्यक्त्वा गजाननं तात जडोन्मत्तादिव- च्चरेत् ॥१०॥ त्वं शांतियोगयुक्तः सन्नधुनाऽपि गजाननम् । भजसे किं महायोगिन् लोकानां संग्रहाय वा ॥११॥ सूत उवाच । एवं वदंतमत्यंतं मुनिर्निर्भर्त्स्य गालवम् । विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥१२॥ विश्वामित्र उवाच । मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् । सर्ववृत्तं विशेषेण त्वं मा जानीहि गालव ॥१३॥ पंचचित्तमयी बुद्धिः स्वेच्छया देह- धारिणी । नानाभ्रांतिकरी सिद्धिर्बभूवे सर्वदा तथा ॥१४॥ तयोः स्वामी गणेशानो देहधारी बभूव ह । स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥१५॥ देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः । ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥१६॥