मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 892, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ३६ पान ८३ स्वेच्छागतिर्युतो भवेत्। तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥७॥ एवं विचार्य विप्रेशं गौतमं स ययौ नृपः। प्रणम्य तं महाभागं पप्रच्छ स्वहितावह्म् ॥८॥ नल उवाच । नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् । तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥९॥ गौतम उवाच । श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप । प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यत्मकं चरेत् ॥१०॥ ततो गाणेशकं राजन् पंचकं भक्तिसंयुतः । नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥११॥ आषाढीं स समासाद्यामावास्यां गणपे रतः। मंडपे गणनांथं च पूजयेद्धेमनिर्मितम् ॥१२॥ द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान्। होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥१३॥ वायनं ब्राह्मणाग्यैव प्रदद्यात् स बलिं चरेत्। ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥१४॥ प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् । सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥१५॥ एकविंशतिसंख्याकानथवा संख्यातिगान्। दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥१६॥ योषिभ्यः कंचुकादींश्च नानालंकारांस्तथा। प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥१७॥ सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम्। अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥१८॥ एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि । त्रिलोगस्तथा सर्वं लभसे मनसीप्सितम् ॥१९॥ एवमुक्त्वा महायोगी गौतमो विरराम ह। नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥२०॥ चकार सर्वधर्मज्ञो नलो गणपतौ रतः । यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥२१॥ ततः स योगिवंद्यश्च बभूव ज्ञानसंयुतः। त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥२२॥ एवं नाना जना विप्र व्रतं संवत्सरात्मकम् । चक्रुस्ते योगिवंद्याश्च बभूवुर्ज्ञानसंयुताः ॥२३॥ मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमूत्तमाम् । अंते स्वानंदगाः सर्वे ब्रह्मभूता बभूविरे ॥२४॥ तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते । अनंतत्वात् महाभाग संक्षेपेण निरूपितम् ॥२५॥ गाणेशपंचकस्यैव सेवने न समर्थकाः । किंचिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥२६॥ तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः । अंते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥२७॥ शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वंध्यो बभूव ह। पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरो- ऽभवत् ॥२८॥ न लेभे संततिं सोऽपि ततोऽतिदुःखसंयुतः । प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥२९॥ तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् । उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥३०॥ श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम्। प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥३१॥ गाणेशपंचकं पूर्णं सेवितुं न बभूव ह। समर्थः स ततो विप्र