भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 911, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 911

पान १०२

युक्तं माहात्म्यं गणपस्य च । तस्य खंडनभावार्थं निंदादिकं चकार सः ॥१९॥ अतो गणपतिं देवा भजध्वं यत्नसंयुताः । मुनयस्तेन संपूर्णं गणपं परमाप्स्यथ ॥२०॥ सुरर्षय ऊचुः । गणेशो योगरूपोऽयं कथं पुंभावमाश्रितः । एकदेशमयं योगिन् वद तस्य चरित्रकम् ॥२१॥ भृशुंड्युवाच । यथा ब्रह्म महाभागा नपुंसकप्रवाचकम् । स्त्रीपुंभावविहीनं तदेकमार्गपरं मतम् ॥२२॥ स्त्रीपुंनपुंसकं सर्वं त्रिविधं त्रयवाचकम् । आत्मा तुरीयसंज्ञश्च पुंवाचकस्त्रिवर्जितः ॥२३॥ जनानां कथने वेदास्तं वदंति गजाननम् । एकमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः ॥२४॥ अतोऽयं गणनाधस्तैः पुंभावात्मक उच्यते । यथा योगादिकाः शब्दास्तथा देवादयो मताः ॥२५॥ वामांगं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः । दक्षिणांगं महाभागा बुद्धिः पुरुषवाचिका ॥२६॥ तयोर्योगे गणेशानो योगाकारो न संशयः । पुंभावादियुतोऽयं न तेभ्यः संवर्जितो न च ॥२७॥ देवर्षय ऊचुः । चतुर्थी गणनाधस्य प्रियाऽत्यंतं तिथिः परा । कथं रिक्ता तु सा प्रोक्ता विवाहादौ विवर्जिता ॥२८॥ साक्षान् मंगलमूर्तेश्च तिथिर्मंगलदायिका । सर्वदा रिक्तभावेन कथं युक्ता बभूव सा ॥२९॥ भृशुंड्युवाच । पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया । व्रतानामादिभूता वै गणेशप्राप्तिकारिका ॥३०॥ व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् । नित्यवन् मानवैः सर्वैः कर्तव्यं चादिरूपकम् ॥३१॥ तदा चतुः पदार्थास्तैर्लभ्यंते नाऽत्र संशयः । नो चेत् कर्म कृतं सर्वं निष्फलं जायते नरैः ॥३२॥ अतः सा संमता सद्भिः सर्वकार्येषु देवपाः । व्रतभंगो न कर्तव्यो नानाकार्यपरैरपि ॥३३॥ विवाहादिषु कार्येषु भोजनं क्रियते जनैः । नानाविषयसंगश्च व्रतं तत्र कुतो भवेत् ॥३४॥ अतः संशयहीनास्तां भजंते व्रतमार्गतः । मंगला- यतनां पूर्णां चतुर्थीं सर्वसिद्धिदाम् ॥३५॥ जन्ममृत्युयुतैर्लोकैः पूरितं सकलं जगत् ॥३६॥ चतुर्थी व्रतकर्तारो जन्ममृत्यु- विवर्जिताः । त्यक्त्वा कर्मफलं कर्म गच्छंति निजलोककम् ॥३७॥ सर्वसंकटहीनास्ते भुक्त्वा भोगान् मनेप्सितान् । ब्रह्म- भूता भवंत्येव चतुर्थीव्रतकारकाः ॥३८॥ व्रतमात्रेण रिक्तं स कुरुते विश्वमंजसा । तेन रिक्ता समाख्याता चतुर्थी नाऽत्र संशयः ॥३९॥ विश्वं त्यक्त्वा गणेशानं गच्छंति व्रतकारिणः । तेन रिक्तं जगत् सर्वं भवते मुनयोऽमराः ॥४०॥ नान्यतिथि- समा देवी मता रिक्ता चतुर्थिका । ब्रह्मभूयप्रदातृत्वात् सर्वेभ्यः सुखदायिका ॥४१॥ एतत् सर्वं समाख्यातं गणेशस्य महात्मनः । रहस्यं व्रतमुख्यस्य किं भूयः श्रोतुमिच्छथ ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥