मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 931, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का सम्पूर्ण पाठ देवनागरी लिपि में पंक्ति-दर-पंक्ति प्रस्तुत है:
खं. ९ अ. २ पान ३ संदेहः सर्वसिद्धिप्रदायकम् ॥४२॥ यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानंते स्वानंदगो भवेत् ॥४३॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥४४॥ अंगहीनजनानां तु स्वंगदं रोगनाशनम् । अलक्ष्मीसंकटस्यैव दहनं पाठकारिणाम् ॥४५॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥४६॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबंधहरं चैव भविष्यति सुसेविनाम् ॥४७॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥४८॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विन्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥४९॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥५०॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥५१॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥५२॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातृप्तिं त्वत्प्रसादान्नमोऽस्तु ते ॥५३॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसंकल्पजं सौख्यं देहि नो गणनायक ॥५४॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्योक्तवासावंतर्धानं चकार ह ॥५५॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥५६॥ एतत् सर्व समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नृणां सर्वसिद्धिप्रदायकम् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥१॥ स्वानंदः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥२॥ स नानामायया युक्तो नानाभाव- परायणः । भावाभावादिहीनत्वाच्छोभते नित्यमंजसा ॥३॥ अनंतकल्पकाले तु गते संतोषमादधे । निवृत्तिमिच्छति