मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 938, कुल 1023 में से
संदर्भ में पढ़ेंस्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥९०॥ अतोऽयं वक्रतुंडस्तं गजाननं परात्परम् । एकदंतं न जानाति तत्र भेदं वदाम्यहम् ॥९१॥ त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् । वक्रतुंडस्तयोर्योगे बिंदुब्रह्मप्रवाचकः ॥९२॥ चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम्। सदा भेदविहीनं तज्जीवसंज्ञं प्रकथ्यते ॥९३॥ मोहहीनं सदा साक्षिरूपं परात्मधारकम् एकदंतस्तयोर्योगे सोऽहंमात्रात्मकः स्मृतः । ॥९४॥ जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् । गजाकारं न संदेह एकदंतस्य नित्यदा ॥९५॥ जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ । विस्मितः स भवेत्तत्र वक्रतुंडो गजाननः ॥९६॥ नानाभेदसमायुक्तो वक्रतुंडो मयोदितम् । भेदहीनमेकदंतं दृष्ट्वा पप्रच्छ तं पुनः ॥९७॥ हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते । बिंदोस्तदेकदंताख्यं न देहादियुतं कदा ॥९८॥ सेवार्थं वक्रतुंडेन प्रार्थितं हृदि संगतम् । ब्रह्म तदेव भो दक्ष एकदंतो बभूव ह ॥९९॥ यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् । तथा ज्ञेयं वक्रतुंडोऽपि ह्येकदंतस्वरूपधृक् ॥१००॥ सगुणं नरसंज्ञस्थं निर्गुणं गजवाचकम् । तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥१॥ सेवार्थं प्रार्थितं सर्वैस्तदेव देहवान्भूत् । गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥२॥ अतो गणेश्वरं दक्ष न जानाति गणेश्वरः । नानामोहसमायुक्तो भ्रांति- भावात् सुशांतिदम् ॥३॥ स्वत उत्थान भावे तु देहो बिंदुमयः स्मृतः । सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥४॥ एवं नानाविभेदैश्च नानाब्रह्मपरायणः । गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥५॥ संयोगे गणनाथास्य स्वत उत्थानकं वपुः । उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥६॥ अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् । वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥७॥ पूर्णयोगे शरीरं तु मतं संयोगवाचकम् । अयोगवाचकं तस्य मस्तकं तु गजाकृति ॥८॥ अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः । अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥९॥ संयोगायोगभावाख्या भ्रांतिः सर्वत्र पठ्यते । निरोधचित्ताग दक्ष सा सिद्धिः परिकीर्तिता ॥११०॥ संयोगायोगभावस्था बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥११॥ अहं गणेशरूपश्चैतत् संयोगायोगकौ मम । कुतो मायाप्रभावाख्यौ तेन शांतिं लभेन्नरः ॥१२॥ सर्वत्राऽभेदभावेन संयोगात्मा गजाननः । तिष्ठत्यत्र न संदेहो युतः संयोगमायया ॥१३॥ सर्वत्राऽभेदहीनश्च योगरूपो गजाननः । अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥१४॥ यदि सर्वात्मकं योगं वदामि गणनायकम् । नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥१५॥ नागतं न गतं योगं कदाचिद्वेद्धजाननम् । नानाब्रह्मसु मुक्तं तं व्यति-