मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 940, कुल 1023 में से
संदर्भ में पढ़ें॥१०॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो। भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥११॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते। आनंत्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥१२॥ साक्षि- स्वरूपाय च सांख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥१३॥ बोधस्वरूपाय संख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥१४॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥१५॥ बिंदुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनंत्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥१६॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥१७॥ आनंदकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१८॥ सर्वांतरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१९॥ बाह्य- स्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जाग्रदास्थ योगाय योगाधिपते नमस्ते ॥२०॥ विश्वस्य द्वैविध्यमयाय तुभ्यं नानांडरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥२१॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥२२॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृतांजलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥२४॥ गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥२५॥ त्वया कृतमिदं स्तोत्रं योगशांतिपदप्रदम् । पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥२६॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्र- पाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥२७॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥२८॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥२९॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥३०॥ अयोग उवाच । यदि ढुंढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥३१॥ पूर्णयोगस्वरूपस्थं मां