मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 945, कुल 1023 में से
संदर्भ में पढ़ें[हेडर] खं. १ अ. ५ | पान १७
नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥८९॥ असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् । खसंवेद्यं परं ब्रह्म विष्णु- द्वंदूपवेशनात् ॥९०॥ तत्रानंदप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठते तेन योगींद्रास्तं गच्छंति समाधिना ॥९१॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् । मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥९२॥ तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया । तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥९३॥ त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् । तेषां संयोग- भावे वै स्वसंवेद्यं प्रकीर्तितम् ॥९४॥ पूर्णसंयोगभावाख्यं पंचमं ब्रह्म तत् स्मृतम् । तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥९५॥ स एव गणनाथस्तु स्वानंदाख्यः प्रकीर्तितः । तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥९६॥ अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥९७॥ न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते । तस्याऽपि तेषु तद्गच्छ तेनायोग इति स्मृतः ॥९८॥ ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते । तस्मान्नि- वृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥९९॥ स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना । नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥१००॥ तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥१॥ इदं पंचविधं चित्तं कथितं ते प्रजापते । जगत्सु ब्रह्मसु तज्जं नानाप्रकाशदायकम् ॥२॥ भूमयः पंच विख्याताश्चित्तस्य विविधात्मनः । भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥३॥ अतः पंचविधं चित्तं त्यज त्वं योगसेवया । योगी भविष्यसि दक्ष चिंतामणौ न संशयः ॥४॥ संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः । अतः परो निरोधो न विद्यते सर्वसंमते ॥५॥ सार्वभौमात्मधर्मेण योगी भवति मानवः । तत्र शांतिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥६॥ योगरूपे सुखं यद्वै योगिनां हृदि वर्तते । तदेव कथितुं दक्ष शक्यते न कदाचन ॥७॥ मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् । मनोवाणी- विहीनं तु निरोधसंज्ञकं मतम् ॥८॥ अतो योगः समाख्यातो मनोवाणीमयो न च । मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥९॥ कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च । ब्रह्मभूतः स्वयं जात एभ्यः शांतिं लभेन्नरः ॥११०॥ योगे योगी नरो जातस्तत्र न ज्ञायते कदा । ब्रह्म वा साधनं किंचिद्ब्रह्मभूतस्य कारकम् ॥११॥ तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् । अतः शांतिं समागृह्य शांतियोगपरो भवेत् ॥१२॥ पंचविधेषु चित्तेषु दृश्यते जगतां परम् । ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥१३॥ नानारसविहीनं तु चित्तं कृत्वा प्रजापते । तन्त्यक्त्वा स भवेद्योगी शांत्या शांतिमवाप्नुयात् ॥१४॥