भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 947, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 947

खं. ९ अ. ६ पान १९ सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ । कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥१६॥ तथापि विश्वसंयुक्तो मोहितो- ऽहं न संशयः । ज्ञात्वाऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥१७॥ मायया जीवसंज्ञोऽहं तथा शिवो न संशयः । मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥१८॥ एवं ज्ञात्वा स्वयं योगी सदा शांत्या प्रवर्तते । द्वंद्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः ॥१९॥ अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् । न देहो नैव देहस्थोऽहं भवामि कदाचन ॥२०॥ संततं मयि नास्त्येव विश्वं मयि न विद्यते । भेदाभेदविहीनत्वादहं ब्रह्मण्यहं रतः ॥२१॥ विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितम् । विश्वहीनो न संदेहः सदैकरूपधारकः ॥२२॥ न सृष्टं पाल्यते नैव ह्रियते न मया कदा । विश्वं सृष्टं हृतं नित्यं पालितं सर्वदा मया ॥२३॥ मयि संततभावश्च दृश्यते न विनिश्चितम् । न विश्वं विविधाकारं नानादेहपरायणम् ॥२४॥ सदा बोधमयोऽहं तु देहदेहियुतस्तथा । मम तत्र न भो दक्ष बंधाऽबंधौ प्रकीर्तितौ ॥२५॥ मायया संयुतो नित्यं देहदेहिमयो मतः । मायाहीनप्रभावेण देहदेहिविवर्जितः ॥२६॥ मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते । सदाऽहं बोधरूपाख्यो ब्रह्मणि ब्रह्मभावितः ॥२७॥ एवं बोधात्मकेनैवानुभवेन प्रजापते । योगी योगसमायुक्तः सदा शांत्या प्रवर्तते ॥२८॥ अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् । प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥२९॥ तयोर्योगेन बोधोऽहं ब्रह्माऽहं भोगवर्जितः । सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥३०॥ मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः । तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥३१॥ मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् । तयोर्योगो भ्रमाकारः सदा खेलपरायणः ॥३२॥ बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा । मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥३३॥ सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः । तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रांतिदः ॥३४॥ सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभावितः । तत्र भेदादिकं नास्ति स्त्रीपुंभावमयं कदा ॥३५॥ मायया रचितं सर्वमनृताख्यं न संशयः । सा मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥३६॥ ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति । माया ततः स्वयं साक्षात् सत्यरूपो भविष्यति ॥३७॥ यद्यहं मायया युक्तस्तया स्त्रीपुंमयं जगत् । सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥३८॥ यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः । तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥३९॥ अनृतं विश्वमखिलं प्रकृतिपुरुषा- त्मकम् । तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥४०॥ योगेनैतादृशेनैव शांतियुक्तो भवेन्नरः । संख्यां त्यक्त्वा स