मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 973, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. १३ पान ४५ प्रजापते। एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥७७॥ अतो गणेश्वरं दक्ष समाश्रय हितप्रदम्। योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥७८॥ न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा। ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥७९॥ ॥ ॐ तत्सदिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम्। सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥१॥ मुद्गल उवाच। देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमंजसा। तयोर्योगे महद्ब्रह्म स्वत उत्थानसंज्ञितम् ॥२॥ भूतानि पंचतन्मात्राः पंच ज्ञानेंद्रियाणि तु। कर्मेंद्रियाणि पंचैव वायवः पंच देवताः ॥३॥ इंद्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा। अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥४॥ चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम्। एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥५॥ सदैकभावरूपश्च भेदैः संवर्जितः परः। क्षेत्रज्ञः क्षेत्रमास्थाय सर्वांतर्यामितां दधे ॥६॥ तयोर्योगे परं ब्रह्म दृश्यादृश्य- विवर्जितम्। दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥७॥ स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः। क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥८॥ चतुर्भेर्दैर्विशेषेण मोहितोऽत्यंतमेव सः। अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥९॥ ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः। त्रिगुणेषु भ्रमेणैव भ्रमतेऽहंममात्मकः ॥१०॥ ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः। राजसं च ततस्त्यक्त्वा सात्त्विकः संभवेत् क्रमात् ॥११॥ ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम्। सर्वगं पंचमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥१२॥ इह सौख्यप्रदं यच्च कर्म संजायते सदा। पापरूपमयं तेन ज्ञायते न कदाचन ॥१३॥ देहभोग- करं पूर्णं शिश्नोदरपरायणम्। तामसं तद्विजानीहि चांते नरकदं भवेत् ॥१४॥ तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम्।