भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 979, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 979

विश्वं नानास्वभावगम् । मनोवाणीविहीनं त्वसंप्रज्ञातं विदुर्बुधाः ॥१३॥ वाण्या संकथ्यते भावो मनस्तत्र प्रगच्छति । नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥१४॥ वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् । चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥१५॥ वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी । तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥१६॥ सरस्वतीलयं यत्र योगभावात् प्रगच्छति । महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥१७॥ सारस्वतलयेनैव चित्तं पंचविधं प्रभो । चिंतामणौ लयं कृत्वा तिष्ठ त्वं योगिसंमतः ॥१८॥ एतत् सर्वं समाख्यातं योगदं ते समासतः । गोपयैनं महायोगं ततो योगी भविष्यसि ॥१९॥ मा योगं कथयस्व त्वमिमं कस्मै प्रजापते । पात्रहीन- प्रभावेण भ्रंशदस्ते भविष्यति ॥२०॥ वासनाहीनभावेन गणेशज्ञानलालसान् । तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥२१॥ अत्र ते कारणं दक्ष कथयामि समासतः । तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥२२॥ योगाकारो गणेशानो यदा खेलपरोऽभवत् । तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥२३॥ सिद्धिबुद्धी ऊचतुः । यदि खेलं करोषि त्वमावाभ्यां गणनायक । आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥२४॥ वेदादिभिस्तत्र वाणीमयी गाथा गजानन । स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥२५॥ तेन त्वां ब्रह्मणों नाथं ज्ञास्यंते मानवादयः । त्वदुपासन- मात्रेण भवेयुर्ब्रह्मभूतकाः ॥२६॥ न त्वां छादयितुं शक्ते वाणीस्थं गणनायक । अतस्तदर्थमानंदात् कुरु किंचिद्गजानन ॥२७॥ एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः । मा खेदं कुरुतं देव्यौ वाणीं संमोहयाम्यहम् ॥२८॥ मोहिता सा मया वाणी वर्णनं भ्रांतिदं च मे । करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥२९॥ गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः । ज्ञास्यंति तेन मां सर्वे न भजिष्यंति भावतः ॥३०॥ सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति । न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥३१॥ सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः । यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥३२॥ परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् । स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥३३॥ परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते । गणेश एव संप्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥३४॥ एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् । सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वे तत् त्रयं मतम् ॥३५॥ एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् । उवाच प्रणनामादौ भक्तिः परम- दुःखिता ॥३६॥ भक्तिरुवाच । वरो दत्तस्त्वया नाथ सिद्धयै बुद्धयै गजानन । तेन भक्तिविहीनाश्च भविष्यंति सदा नराः ॥३७॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 979, कुल 1023 में से · BharatKosha