मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 984, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एतत्ते कथितं सर्वं रहस्यं परमं मया । गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥१॥ अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि । मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥२॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥३॥ तेन संपूजितो योगी ह्यभवद्धंतुमुद्यतः । तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥४॥ मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् । पाशांकुशरदैर्युक्तमभयं धारकं प्रभुम् ॥५॥ गजास्यं रक्तवस्त्रैः संछादितं भूषणैर्युतम् । नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥६॥ त्रिनेत्रमेकदंतं च महाकुक्षिं परात्परम् । दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥७॥ उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् । दक्षश्च मुद्गलो विप्रो दंडवत् पृथिवीतले ॥८॥ ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह । गणेशं भक्तिसंयुक्तः सरोमांचोऽश्रुसंयुतः ॥९॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन । वेदांतागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥१०॥ धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् । मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥११॥ मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः । तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥१२॥ मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः । त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥१३॥ एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः । भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥१४॥ आंतस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः । जय हेरंब विघ्नेश गणेश मूषकध्वज ॥१५॥ गजानन परेश्रान जय लंबोदर प्रभो । उच्चरन् साश्रुनेत्रश्च देहातीत इवाऽभवत् ॥१६॥ एतस्मिन्नंतरे सर्वे समाजग्मुः सुरेश्वराः । शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥१७॥ मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः । शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥१८॥ वसवः साध्यरुद्राश्च गंधर्वाप्सरसस्तथा । अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥१९॥ सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः । विद्याधराः कामदुघा गावो विप्रा अनेकशः ॥२०॥ प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः । भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥२१॥ ततः स मुद्गलो योगी विस्मितः प्रबभूव ह । पुराणश्रवणस्यैतत् दृष्ट्वा फलमनंतकम् ॥२२॥ बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः । हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥२३॥ ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् । पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥२४॥ साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकंधरः । अनु तं देवविप्राद्यास्तुष्टुवुस्तं पेरेश्वरम् ॥२५॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा