मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 988, कुल 1023 में से
संदर्भ में पढ़ेंननम् ॥४२॥ सत्यं प्रणवरूपं यत्तत्र देहधरः कथम्। तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥४३॥ सर्वमोंकार एवेदं न भिन्नं तत्र वर्तते। अनेन विधिना तेषां भजनं तस्य जायते ॥४४॥ ततः परं बुद्धिसंस्थं ये भजंति महामुने। गणेशानं सर्वसमं भावयंति न संशयः ॥४५॥ बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम्। ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थ- संयुतः ॥४६॥ मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परम्। गणेश्वरोऽन्ये तु तत्र तिष्ठंति भ्रांतिजाः कुतः ॥४७॥ एवं भजंति विघ्नेशं परं प्रणववर्जितम्। ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥४८॥ ततः परं गणेशानं गाणेशस्थं भजंति ये। गणैशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥४९॥ प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः। ओंकारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥५०॥ प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत्। तयोः प्रीत्यर्थमानंदादेहधारी बभूव ह ॥५१॥ गकारः प्रणवाकारो णकारो बुद्धिचालकः। तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥५२॥ गाणपत्यस्वभावेन भजंते तं निरंतरम्। एकनिष्ठतया भक्त्या भवंते विप्रयोगिनः ॥५३॥ ततस्ते मौद्गले पूर्णे सेवंते भक्तिसंयुताः। त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥५४॥ योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत्। कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥५५॥ प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः। तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥५६॥ एवं ज्ञात्वा गणेशानं भजंते त्रिषु संस्थितम्। मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥५७॥ तत्र ते भजनं मुख्यं पंचधा कथयाम्यहम्। येन भक्त्येंद्र भूपस्त्वं भविष्यसि महामते ॥५८॥ मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः। मंत्रस्तवन- कार्यैश्च देहधारिसुखप्रदैः ॥५९॥ प्रणवं जगदाकारं तत्र जीवमयं प्रभुम्। भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥६०॥ कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः। अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥६१॥ द्वंद्वभावं समालोक्य साक्षिवद्भाववर्जितः। बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥६२॥ धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः। बुद्धिभावं परित्यज्य निःसंगः स भवेत् सदा ॥६३॥ नाहं कर्ता कारयिता न देहस्थो न निश्चितम्। न बुद्धिस्थोऽहमानंदा- द्रह्माऽहं निर्मलः सदा ॥६४॥ निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता। तया गणेश्वरः प्रीतो भवेदात्मा सदा- ऽमलः ॥६५॥ न गणेशादहं भिन्नो देहधर्मः प्रवर्तते। गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥६६॥ स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम्। त्रिभिर्मार्गैर्भजेन्नित्यं शांत्या भक्तिसमन्वितः ॥६७॥ त्रयाणां योगभावे यो गणेशश्चि-