मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 990, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ सूत उवाच । शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः । ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥१॥ अनृतादिकमेवं संत्यजेत् सर्वं समाहितः । हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥२॥ गणेशसन्निधाने वै वने वा स्वगृहे स्थितः । शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥३॥ अथवा कामनायुक्तो निःकामो वा भवेन्नरः । शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥४॥ यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः । शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥५॥ ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् । शूद्रश्चेत् ब्राह्मणं कंचित् पुरस्कृत्य समाहितः ॥६॥ भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् । पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥७॥ माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् । पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥८॥ अथवा भाद्रमासस्य प्रतिपत्त: समारभेत् । आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥९॥ एवं माघे तथा ज्येष्ठे सार्धमासैकमानतः । श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥१०॥ अथवा भाद्रमासे च प्रतिपत्त: समारभेत् । पुराणं मौद्गलं विप्र शृणुयादूर्ध्वमात्रतः ॥११॥ पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः । प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥१२॥ पंचम्यां मौद्गलं पूर्णं समापयतु तन्नरः । एवं श्रुत्वा फलं सद्यो लभेदीप्सितमंजसा ॥१३॥ विधिं तत्र प्रवक्ष्यामि मंडपं कारयेन्नरः । तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥१४॥ आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः । ततो मुद्गलविप्रेंद्रं शुकं योगविशारदम् ॥१५॥ पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ । ततः पौराणिकं शांतं पूजयेद्भावसंयुतः ॥१६॥ ततः श्रोतॄगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः । पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥१७॥ अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः । सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥१८॥ यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् । पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥१९॥ नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः । नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥२०॥ गणेशप्रीतये सर्वं कुर्या- द्धीमान्निरंतरम् । विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥२१॥ अंते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः । राजोपचार- काद्यैस्तु भक्तिभावसमन्वितः ॥२२॥ ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः । रत्नाद्यैरर्हसंयुक्तः प्रार्थयेन्नम्रकंधरः ॥२३॥ तारितोऽहं त्वया नाथ पुराणश्रावकेन वै । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥२४॥ एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् । दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥२५॥ पौराणिकं ततो भूयः समानीय महायशाः ।