मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 999, कुल 1023 में से
संदर्भ में पढ़ेंविकल्पं संशयाकारं महातेजोयुतं खलम् ॥३४॥ तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे । सद्यस्ते संशयैनैव युक्ता विप्र बभूविरे ॥३५॥ किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति । गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥३६॥ रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः । ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥३७॥ एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने । मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥३८॥ किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते । विकल्पेन समायुक्ता बभूवुर्भ्रांतचेतसः ॥३९॥ ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः । नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥४०॥ विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह । प्रससार त्रिलोकेषु नानासंशयकारकः ॥४१॥ तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः । एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥४२॥ अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः । नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥४३॥ ततः कर्मविहीनं तु बभूव सचराचरम् । देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥४४॥ विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे । ततो गजाननं देवं तुष्टुवुस्तद्धधाय ते ॥४५॥ पुनराकाशवाणीस्थो जगादैतान् गजाननः । मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥४६॥ विकल्पो वशगस्तेन भविष्यति न संशयः । एवमुक्त्वा गणाधीशो विरराम च शौनक ॥४७॥ ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः । कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥४८॥ प्रणम्य भावसंयुक्ताः पप्रच्छुः करसंयुटाः । विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥४९॥ तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् । जगाद वचनं योगी मुद्गलो मायया युतान् ॥५०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् । तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥१॥ शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः । स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥२॥ महर्षयः कश्यपाद्या मुद्गलेन शिवाद्यः । आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥३॥ मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते । विकल्पस्य महाभाग तेन निःसंशया बभुः ॥४॥ विकल्पेन च वृत्तांतो ज्ञातो देवर्षिसंभवः । क्रोधयुक्तः स्वयं हंतुमाययौ