भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:

खं. ९ अ. ३९ पान ८९

॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रह्लादो नाम विख्यातो योगी योगपरायणः । मयूरेशं समाश्रित्याऽभजत्तं भक्ति- संयुतः ॥१॥ स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥२॥ तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः । तं जगाद मयूरेशो वरयस्व वरान् परान् ॥३॥ स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः । योगशांतिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥४॥ तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः । मौद्गले नवमं खंडं पश्य योगप्रदायकम् ॥५॥ तेन योगींद्रवंद्यस्त्वं भविष्यसि महामते । भक्तिर्मे भविता ते तु दृढा संपूर्णभावतः ॥६॥ एवमुक्तां- ऽतर्दधेऽसौ मयूरेशो महामतिम् । संजाग्रतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥७॥ ततो मौद्गलसंस्थं स खंडं योगात्मकं परम् । पपाठाऽलिरुद्य भक्त्या स नवमं नित्यमादरात् ॥८॥ योगगीतार्थकं योगमलभत्तत्प्रसादतः । ततोऽतिहर्षसंयुक्तो- ऽभजत्तं नवधा प्रभुम् ॥९॥ क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः । पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥१०॥ कदा दैत्येंद्रमुख्यश्च बहुधा सिंधुसंज्ञितः । क्षेत्रमूर्तिं गणेशस्य खंडयामास संस्थिताम् ॥११॥ सिंधोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा । प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥१२॥ क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् । प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥१३॥ प्रह्लादो योगिवंद्यः स क्षेत्रसंन्यासभक्तितः । उपोषणपरो भूत्वाऽतिष्ठत्त- त्रैव नित्यदा ॥१४॥ मानसीमकरोत्त्तत्र पूजां विघ्नेश्वरस्य सः । तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥१५॥ दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा । भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥१६॥ एवं बहुौ गते काले शिवपुत्रो बभूव ह । मयूरेशो वधार्थाय सिंधोर्देवर्षिभिस्तुतः ॥१७॥ स समागत्य सिंधोश्च खंडयामास मूर्तिकाम् । तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥१८॥ दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः । पारणं स चकारैव हर्षनिर्भरमानसः ॥१९॥ प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् । स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥२०॥ ब्रह्मैव ब्रह्मकल्पांते मयूरेशश्चकार तम् । अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥२१॥ अन्यच्च शृणु विप्रेश विश्वामित्रो महामुनिः । चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥२२॥ सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः । ज्वरयुक्तः कदाचिद्वै नवमं खंडमुत्तमम् ॥२३॥ सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् । यथेष्टं विषयान् भुक्त्वाऽंते स्वानंदगतोऽभवत् ॥२४॥

नवमखंडमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥

गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूव ह । एवं नाना जना ब्रह्म लेभिरे खंडसंश्रवात् ॥२५॥ कति तेषु ब्रवीम्येव केन वक्तुं न शक्यते । भुक्तिमुक्तिप्रदश्चायं खंडो नवमसंज्ञितः ॥२६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखंडमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अयं ते कथितः पूर्णः खंडो योगात्मकः परः । नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥१॥ एकस्य श्रवणेनैव खंडस्यास्य महामते । संपूर्ण मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥२॥ न शक्यते मया विप्र माहात्म्यं खंडसंभवम् । यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥३॥ चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति । सांगैः साधनकैश्चास्य खंडस्यात्र न संशयः ॥४॥ अष्टादश पुराणान्युपपुराणानि यस्तथा । शृणुयात् स नरस्तस्मादनंतं त्वस्य संश्रवात् ॥५॥ शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु । तेषां श्रवणतो जंतुरस्यानंतं फलं लभेत् ॥६॥ तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः । तेभ्योऽनंतगुणं पुण्यमस्य श्रवणतो लभेत् ॥७॥ क्षेत्राणि विविधान्येव यः कुर्याद्भक्ति- संयुतः । तेभ्योऽस्य श्रवणेनैव लभेतासंख्यकं फलम् ॥८॥ दानानि विविधान्येव यः कुर्यान् मानवोत्तमः । अस्य श्रवण- मात्रेणानंतं तेभ्यः फलं लभेत् ॥९॥ यज्ञान् कुर्याच्च संपूर्णान् यथा शास्त्रप्रमाणतः । तेभ्योऽनंतं फलं प्रोक्तमस्य श्रवणमात्रतः ॥१०॥ इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः । प्रकुर्यात् स फलं तेभ्यो नरोऽनंतं लभेच्छ्रवात् ॥११॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् । साधनं योगखंडेन योगो यत्र निरूपितः ॥१२॥ संपूर्णो योगखंडस्ते कथितो व्यासवर्णितः । अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥१३॥ संपूर्ण मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् । अतः परं पुराणं च नास्ति शौनक ते नमः ॥१४॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखंडमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः॥

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पुराणेषु महाभाग संशयैर्विविधैः परैः । प्राप्तैस्तैः संयुक्तोऽहं च संस्थितः खेदसंयुक्तः ॥१॥ अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे । गमिष्यंति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥२॥ अंत्यं मौद्गलं श्रुत्वा संशया मे गताः पुरा । निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥३॥ एको मे संशयश्चैव हृदि तिष्ठति तं नुद । गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शांतिद ॥४॥ गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता । सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥५॥ ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् । धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥६॥ तत्राऽऽदौ गणनांथस्य पूजनं स्मरणं कृतम् । पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥७॥ संपूर्णे भारते जाते कृतकृत्यो महामुनिः । अभवन्नात्र संदेहः किमिदं कौतुकं वद ॥८॥ शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् । तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥९॥ तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः । उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्रांजलयोऽभवन् ॥१०॥ ततः समीपे संस्थाप्य जगाद मुनिसत्तमः । व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥११॥ व्यास उवाच । मया शास्त्रं कृतं विप्र भारतं नात्र संशयः । तत्रार्थं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसंज्ञितः ॥१२॥ सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव संमतम् । विर्कुठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥१३॥ सिद्धिवुद्धिवरेणैव मोहितोऽहं न संशयः । गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥१४॥ अन्यं ग्रंथं ततः कर्तुमुद्यतो ह्यभवं मुने । तत्राऽऽकाशभवा वाणी मामुवाच शृणुष्व तत् ॥१५॥ गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै । मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥१६॥ मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनींद्राः । स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥१७॥ श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः । अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥१८॥ पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् । ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥१९॥ तथापि मोहिताः सर्वे विप्राद्या न गजाननम् । जानंति तादृशं तेषु सिद्धिवुद्धिवरेण ते ॥२०॥ गणेश- वरदानेन भक्त्यै मौद्गलकं परम् । दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यंते नान्यथा क्वचित् ॥२१॥ अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् । कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥२२॥ एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः । विरराम च तत्रैव धूम्रवर्णः समाययौ ॥२३॥ तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः । संपूज्य तुष्टुवुस्ते वै गाणेशै- र्गणपप्रियैः ॥२४॥ धूम्रवर्णः संजगाद तुष्टस्तान् हास्यसंयुतः । स्वभक्तान् गणनांथस्तु वचनं सुखदायकम् ॥२५॥


धूम्रवर्ण उवाच । कलेः पराक्रमः सर्वो मया संपूर्णभावतः । खंडितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥२६॥ एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले । स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥२७॥ जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् । जपध्वं नित्यमानंदात्तेनाऽहं वशगो भवे ॥२८॥ नानेन सदृशं किंचित् प्रियं चोपनिषत् परम् । यत्राऽहं पंचधा संस्थो योगाकारस्वरूपधृक् ॥२९॥ पंचधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते । श्रवणेन पुराणस्य पठनेन तदर्थतः ॥३०॥ मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः । तत्राऽहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥३१॥ ब्राह्मे बुद्धि- स्थितं रूपं वर्णितं मे तदंशतः । तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥३२॥ ब्रह्मांडे प्रणवाकारो नानाखेलसमन्वितः । विश्वाकारप्रभावेणांऽशेन तत्र स्थितो मुदा ॥३३॥ गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः । गजवक्त्रादिचिह्नैः संयुक्त- स्तिष्ठामि सर्वदा ॥३४॥ अन्येषु च पुराणेषु शिवविष्णुवादिरूपधृक् । संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥३५॥ मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्व्रतः । सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥३६॥ तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् । मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥३७॥ भक्त्या संप्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः । तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥३८॥ तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा । मुद्गलस्य हृदि क्षिप्तं सर्व- सौख्यप्रदायकम् ॥३९॥ मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् । कथयामास संपूर्णं पुराणं मे मुदाकृती ॥४०॥ ततः शिवादिभिर्देवैर्मरीचादिमहर्षिभिः । शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥४१॥ न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः । ज्ञायते केनचित् कापि पूर्णं सर्वप्रकाशकम् ॥४२॥ अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः । तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥४३॥ सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः । जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥४४॥ तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा । ज्ञास्यंति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥४५॥ अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः । तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरंतरम् ॥४६॥ नानेन सदृशं किंचिन् मत्प्राप्तौ साधनं परम् । सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥४७॥ अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् । न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥४८॥ मौद्गलश्रवणेनैव संतुष्टोऽहं महर्षयः । दास्यामि सकलाभीष्टं वृणुध्वं निर्विशंकया ॥४९॥ शौनकाद्या ऊचुः । भक्तिं देहि त्वदीयां नौ योगं शांतिप्रदायकम् । यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥५०॥


खं. ९ अ. ४१ पान ९३ 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 卐卐卐卐卐卐卐卐卐卐 गाणपत्यांश्च नःसर्वान् कुरु त्वं सर्वदा परान् । इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥५१॥ तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः । व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥५२॥ तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः । तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥५३॥ वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् । द्विजेभ्यस्तेन संतुष्टो दास्यामि स तथाऽब्रवीत् ॥५४॥ तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः । अंतर्धाय स्वमात्मानं स्वानंदस्थो बभूव ह ॥५५॥ सर्वे संतुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः । मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥५६॥ इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् । त्रयोविंशतिसाहस्रैः सार्धैकशतसंयुतैः ॥५७॥ अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः । खंडैश्च नवभिः पूर्णां सर्वसिद्धिमयींचिताम् ॥५८॥ मुद्गलः कथयामास सर्वेषां हितकारणात् । शब्दब्रह्म- रहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥५९॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥

॥ श्रीगजाननार्पणमस्तु ॥

॥ वक्रतुंडाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥

॥ इति श्रीमुद्गलपुराणे नवमः खंडः समाप्तः ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥