मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 138, कुल 488 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ३५
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते
तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया ।
भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया
भक्त्या कार्यधुरां वहन्ति न हि ते दुर्लभास्त्वादृशाः ॥१४॥
**अन्वयः—**अयं लोकः ऐश्वर्यात् अनपेतम् ईश्वरम् अर्थतः सेवते । ये पुनः विपत्तिषु तमनुगच्छन्ति ते तत्प्रतिष्ठाशया । त्वादृशाः कृतिनः ये भर्तुः प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरां वहन्ति ते दुर्लभाः ॥१४॥
व्याख्या—अयम्—एषः, लोकः—संसारः, ऐश्वर्यात्—वैभवात्, अनपेतम्—युक्तम्, ईश्वरम्—स्वामिनम्, अर्थतः—प्रयोजनवशात्, सेवते—भजते । ये पुनः—पक्षान्तरे ये जनाः, विपत्तिषु—आपत्तिकालेषु, तम्—स्वामिनम्, अनुगच्छन्ति—अनुसरन्ति, ते जनाः, तत्प्रतिष्ठाशया—तस्य स्वामिनः या प्रतिष्ठा, पुनः राज्य-प्राप्तिः तत्र या आशा अपेक्षा तयैव (तथा कुर्वन्ति) । त्वादृशाः—भवादृशाः, कृतिनः—कृतराजकृत्याः, कृतज्ञा वा, ये, भर्तुः—स्वामिनः, प्रलयेऽपि—नाशेऽपि, पूर्वसुकृतासङ्गेन—पूर्वसुकृतस्य पूर्वकृतोपकारस्य, आसङ्गेन सम्बन्धेन अविस्मर-णेनेत्यर्थः, निःसङ्गया—फलासक्तिरहितया, भक्त्या—अनुरागेण, कार्यधुरां—कर्तव्यभारं, वहन्ति—धारयन्ति, ते, दुर्लभाः—दुष्प्रापाः ( भवन्ति ) ॥१४॥
**हिन्दी अनुवाद—**यह संसार स्वार्थ-साधन के लिए सम्पत्तिशाली स्वामी की सेवा करता है और जो विपत्ति के समय स्वामी का अनुगमन करते हैं, वे स्वामी की पुनः राज्य-प्राप्ति की आशा से ( ऐसा करते हैं ) । किन्तु तुम्हारे जैसे कर्मवीर, जो स्वामी के मर जाने पर भी पहले से किये हुए उपकार के अविस्मरण से निःस्वार्थ भक्ति के द्वारा कार्य के भार को वहन करते हैं (अर्थात् उसी का कार्य करते चलते हैं), वे दुर्लभ होते हैं ॥१४॥
टिप्पणी—अर्थतः—स्वार्थवश । हेतौ तृतीया । ततः तस् । तम्—अत्र अनु इति कर्मप्रवचनीययोगे द्वितीया । तत्प्रतिष्ठाशया—उसकी प्रतिष्ठा या अभ्युदय की आशा से । प्रति √स्था + अङ् भावे = प्रतिष्ठा । तस्य प्रतिष्ठा तत्प्रतिष्ठा षष्ठीतत्० । तस्याम् आशा तत्प्रतिष्ठाशा सुप्सुपा स०, तया । हेतौ तृतीया । कृतिनः—कृतकार्य, जिन्होंने अच्छे कार्य किये हों । कृतम् अस्ति एषाम् इति कृत + इनि । पूर्वसुकृतासङ्गेन—पूर्व किये गये उपकार की स्मृति अथवा