भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 181, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 181

८२ मुद्राराक्षसम्

अपि च । [ ‘आस्वादितद्विरदशोणितशोणशोभाम्’—इति पूर्वोक्तं पठति । ]

चन्दनदास — [ स्वगतम् [ फलेण संवादिदं से विकत्थियदम् । ( फलेन संवादितमस्य विकत्थितम् । )

[ नेपथ्ये कलकलः । ]

व्याख्या—अन्यच्च—अपि च । विष्णुगुप्तः—चाणक्यः, नन्दमिव—यथा नव नन्दान् ( हतवान् तथैव चन्द्रगुप्तः त्वामित्याशयः । ) इति—इयति, अर्धोक्ते—अर्धकथने, लज्जा—त्रपा, नाटयित्वा—अभिनय । अमात्यराक्षस, चन्द्रगुप्तम्—वृषल, समुच्छेत्स्यति—समुन्मूलयिष्यति, इति मैवं मंस्थाः—मैवं जानीहि ।

अन्वय—तदा नन्दे जीवति मुहुः चलन्ती या श्रीः विक्रान्तैः नयशा- लिभिः वक्रणासादिभिः सुसचिवैः स्थैर्यं न गमिता, द्युतिमिव एकत्रमुपा- गता जगत् प्रह्लादयन्ती ताम् चन्द्रादिव चन्द्रगुप्तनृपतेः पृथक् कर्तुं कः व्यवस्येत् ॥ २३ ॥

व्याख्या—तदा—तस्मिन् समये, नन्दे—तदाख्ये राजनि, जीवति—विद्यमाने सति, मुहुः—वारंवार, चलन्ती—कम्पमाना, या, श्रीः—राजलक्ष्मीः, विक्रान्तैः—शूरैः, नयशालिभिः—नीतिज्ञैः, वक्रणासादिभिः—वक्रणासप्रभृतिभिः, सुसचिवैः—सुमन्त्रिभिः, स्थैर्य—स्थिरता, न गमिता—न प्रापिता, द्युतिमिव—कान्तिमिव, एकत्रमुपागताम्—अभिन्नतामापन्नाम्, जगत्—लोकं, प्रह्लादयन्तीम्—आनन्दयन्तीम्, ताम्—श्रियं, चन्द्रादिव—इन्दोरिव, चन्द्रगुप्तनृपतेः—मौर्यभूपतेः, पृथक्, कर्तुं—वियोजयितुं, कः व्यवस्येत्—यतेत न कोऽपीत्यर्थः ॥२३॥

अस्य—चाणक्यस्य, विकत्थितम्—आत्मश्लाघा, फलेन—नन्दविनाशरूपेण, ( सह ) संवादितम्—सामञ्जस्यं प्रापितम् ।

हिन्दी अनुवाद—चाणक्य—और भी । नन्द को चाणक्य की तरह [ ऐसा आधा कहने पर लज्जा का अभिनय करके ] चन्द्रगुप्त को अमात्य राक्षस समूल नष्ट कर देगा—ऐसा मत समझो । देखो—

मुद्राराक्षसम् (सटीक संस्कृत नाटक) · पृष्ठ 181, कुल 488 में से · BharatKosha