भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 184, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 184

प्रथमोऽङ्कः ८५

निर्वास्यते—निष्कास्यते । राजापथ्यकारित्वस्य—राजद्रोहविधायित्वस्य, फलम्, अनुभवतु—भुनक्तु । चन्दनदास ! अयम्—एषः, राजा—वृषलः, राजापथ्यकारिषु—राजविद्रोहिषु, तीक्ष्णदण्डः—उग्रशासनः । तत्, पथ्यं—हितं, सुहृद्वचः—मित्रकथनं, क्रियताम्—विधीयताम् । राक्षसगृहजनः—राक्षसपरिवारः, समर्प्यताम्—दीयताम् । चिरं—बहुकालं, विचित्रः—बहुविधः, राजप्रसादः—नृपानुग्रहः, अनुभूयताम् । अयमपि—एषोऽपि, राजापथ्यकारी एव, कायस्थः—चित्रगुप्तजातीयः, शकटदासः—तदाख्यः राक्षससुहृत्, शूलम्—लोहनिर्मितमायुधम्, आरोपयितुं, नीयते—तत्समीपं प्राप्यते । स्वकर्मफलम्—स्वस्य आत्मनः कर्म कार्यं तस्य फलम्, अनुभवतु । एवम्—इत्थम्, अपथ्यकारिषु—अहितविधायिषु,—तीक्ष्णदण्डः, अयं राजा—चन्द्रगुप्तः, भवतः—तव, राक्षसकलत्रप्रच्छादनं—राक्षसगृहजनगोपनं, न मर्षयिष्यति—न सहिष्यते । तत्—तस्मात्, परकलत्रेण—राक्षसपरिवारसमर्पणेनेत्यर्थः, आत्मनः—स्वस्य, कलत्रं—गृहजनं, जीवितं च—जीवनं च, रक्ष—पाहि । आर्य !, किं मे—मामित्यर्थः, भयं—त्रासं, दर्शयसि ? अमात्यराक्षसस्य, गृहजनं, सन्तमपि—विद्यमानमपि, न समर्पयामि—न प्रदास्यामीत्यर्थः, किं पुनः, असन्तम् अविद्यमानम् ।

हिन्दी अनुवादचाणक्य—शार्ङ्गरव ! पता लगाओ, यह क्या है ।

शिष्य—जो आज्ञा । [ बाहर जाकर और पुनः प्रवेश करके ] आचार्य ! यह महाराज चन्द्रगुप्त की आज्ञा से राजद्रोही क्षपणक जीवसिद्धि अपमान के साथ नगर से निकाला जा रहा है ।

चाणक्य—ओह ! क्षपणक !! अथवा राजा से द्रोह करने का फल भोगो । सेठ चन्दनदास ! ऐसा ही यह राजा राजद्रोहियों के प्रति कठोर दंड वाला है । इसलिए मित्र का हितकारी वचन मानो । राक्षस के परिवार को सौंप दो । और चिरकाल तक राजा के अद्भुत अनुग्रह का अनुभव करो ।

चन्दनदास—मेरे घर मे अमात्य का परिवार नही है ।

[ नेपथ्य में फिर कोलाहल होता है । ]

चाणक्य—शार्ङ्गरव ! पता लगाओ, यह क्या है ।

शिष्य—जो आज्ञा [ बाहर जाकर और पुनः प्रवेश करके ] आचार्य !