मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
पृष्ठ 234, कुल 488 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । १४३
तत् भजति इति राज्यार्ध√भज् + ण्वि कर्तरि = राज्यार्धभाक् । प्रणिहितः—नियुक्त किए गए । प्र-नि√धा + क्त कर्मणि, धा इत्यस्य हि आदेशः, 'नेर्गदनद'—इत्यादिना णत्वम् । घातिताः—मारे गए । √हन् + णिच् + क्त कर्मणि । इसका कर्ता लुप्त 'मया' है । तानि ( रसयन्त्राणि ) तान् हतवन्ति = अहम् तैः तान् घातितवान् = मया तैः ते घातिताः । इस पद्य में विषमालंकार है, वैदर्भी रीति है, माधुर्य गुण है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ १६ ॥
विराधगुप्तः—अमात्य ! तथापि प्रारब्धमपरित्याज्यमेव । पश्यतु—
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणास्त्वमिवोद्वहन्ति ॥१७॥
अन्वयः—नीचैः विघ्नभयेन न खलु प्रारभ्यते । मध्याः प्रारभ्य विघ्नविहताः ( सन्तः ) विरमन्ति । त्वमिव उत्तमगुणाः विघ्नैः पुनः पुनः प्रतिहन्यमानाः अपि प्रारब्धम् उद्वहन्ति ॥ १७ ॥
व्याख्या—नीचैः—अधमैः, विघ्नभयेन—अन्तरायभीत्या, न खलु—नैव, प्रारभ्यते—कर्म प्रस्तूयते । मध्याः—मध्यमाः जनाः, प्रारभ्य—कर्म प्रस्तुत्य, विघ्नविहताः—विघ्नैः प्रत्यूहैः विहताः बाधिताः ( सन्तः ), विरमन्ति—निवर्तन्ते । त्वमिव—भवानिव, उत्तमगुणाः—उत्कृष्टगुणवन्तः (जनाः), विघ्नैः—अन्तरायैः, पुनः पुनः—भूयो भूयः, प्रतिहन्यमानाः अपि—बाध्यमाना अपि, प्रारब्धम्—प्रस्तुतं कर्म, उद्वहन्ति—धारयन्ति सम्पादयन्तीत्यर्थः ॥ १७ ॥
हिन्दी अनुवाद—विराधगुप्त—अमात्य ! तोभी प्रारंभ किये हुए कार्य का परित्याग नही करना चाहिए । देखिए—
नीच ( मनुष्य ) विघ्नो के डर से ( कार्य का ) प्रारंभ ही नही करते है । मध्यम ( श्रेणी के लोग ) प्रारंभ करके विघ्नो से बाधित होने पर रुक जाते हैं । किन्तु आप जैसे उत्तम गुणों वाले ( जन ) विघ्नों से बार-बार बाधित होते हुए भी प्रारंभ किये हुए ( कार्य ) को सम्पन्न करते है ॥ १७ ॥
टिप्पणी—प्रारब्धम्—प्रक्रान्तम्, प्रस्तुतम् । प्र-आ√रभ् + क्त कर्मणि ॥