भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 260, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 260

तृतीयोऽङ्कः । १७३

तब गुरु अंकुश (निवारक) होता है। इसलिए विनय (सुशिक्षा) में रुचि रखने वाले सज्जन सदा ही स्वतन्त्र हैं। अतएव स्वेच्छाचारियों से हम अत्यंत ही पराङ्मुख हैं ॥ ६ ॥

टिप्पणी—कृतककलहम्—कृत्रिमविवादम् । कृत एव कृतकः । तादृशः कलहः, तम् । स्वतन्त्रेण—अनायत्तेन । स्वः आत्मा तन्त्रं प्रधानं यस्य स स्वतन्त्रः, तेन । कञ्चित् कालम्—अत्र व्याप्त्यर्थे द्वितीया । व्यवहर्तव्यम्—वर्तितव्यम् । वि-अव√हृ+तव्य भावे । शश्वदार्योपदेशसंस्क्रियमाणमतयः—अनवरतचाणक्यनिदेशविशोध्यमानबुद्धयः । अतः—इदमतीत्य इति यावत् । अत्र ल्यब्लोपे पञ्चमी । स्वातन्त्र्येभ्यः—स्वतन्त्रस्य भावाः इति स्वतन्त्र+ष्यञ्=स्वातन्त्र्याणि, तेभ्यः । 'ध्रुवमपाये'—इति पञ्चमी । पराङ्मुखाः—मुंह मोड़े हुए, विमुख । परा अञ्चति इति परा√अञ्च्+क्विन् कर्तरि=पराक् । पराक् मुखमेषाम् इति पराङ्मुखाः । इस श्लोक में परिणाम अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और हरिणी छन्द है। इस छन्द का लक्षण यह है—'नसमरसलागः षड्वेदैर्हयैर्हरिणी मता' ॥ ६ ॥

[ प्रकाशम् ] आर्य वैहीनरे ! सुगाङ्गप्रासादमार्गमादेशय ।

कञ्चुकी—इत इतो देवः ।

राजा—[ परिक्रामति ]

कञ्चुकी—[ परिक्रम्य ] अयं सुगाङ्गप्रासादः । शनैरारोढुमर्हत्यार्यः ।

राजा—[ नाट्येणारुह्य दिशोऽवलोक्य ] अहो ! शरत्समयसम्भूतशोभाविभूतीना दिशामतिरमणीयता !! कुतः ?—

शनैः शान्ता भूताः सितजलधरच्छेदपुलिनाः
समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः ।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदै-
र्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ ७ ॥

अन्वयः—शनैः शान्ताः भूताः सितजलधरच्छेदपुलिनाः कलविरुतिभिः सारसकुलैः समन्तात् आकीर्णाः दश दिशः निशि चित्राकारैः विकचनक्षत्रकुमुदैः चिताः ( सत्यः ) दीर्घाः सरित इव नभस्तः स्यन्दन्ते ॥ ७ ॥